विश्वास-प्रस्तुतिः
अथात आरम्भणीया एव ।
Haug
(The Opening Verses of the Śastras of the Minor Hotṛi-priests at the Ahargaṇa Soma Sacrifice, i.e., such ones as last for a Series of Days.)
Now follow the opening verses (of these Śastras after the Stotriyas have been repeated).
मूलम्
अथात आरम्भणीया एव ।
विश्वास-प्रस्तुतिः
ऋजुनीती नो वरुण इति मैत्रावरुणस्य ।
Haug
Rijunītî no Varuṇa (1, 90, 1) is that of the Maitrāvaruṇa Śastra;
मूलम्
ऋजुनीती नो वरुण इति मैत्रावरुणस्य ।
विश्वास-प्रस्तुतिः
मित्रो नयतु विद्वानिति ।
Haug
for in its second pāda is said, “Mitra, the wise, may lead !”
मूलम्
मित्रो नयतु विद्वानिति ।
विश्वास-प्रस्तुतिः
प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणस्तस्मादेषा प्रणेतृमती भवति ।
Haug
for the Maitrāvaruṇa is the leader of the Hotṛi-priests. Therefore is this the leading verse.
मूलम्
प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणस्तस्मादेषा प्रणेतृमती भवति ।
विश्वास-प्रस्तुतिः
इन्द्रं वो विश्वतस्परीति ब्राह्मणाच्छंसिनः ।
Haug
By Indram vo visvatas pari (1, 7, 10) commences the Brāhmaṇāchchhaṁsi;
मूलम्
इन्द्रं वो विश्वतस्परीति ब्राह्मणाच्छंसिनः ।
विश्वास-प्रस्तुतिः
हवामहे जनेभ्य इतीन्द्रमेवैतयाहरहार्निह्वयन्ते ।
Haug
for by the words “we call him (Indra) to the people” they call Indra every day.
मूलम्
हवामहे जनेभ्य इतीन्द्रमेवैतयाहरहार्निह्वयन्ते ।
विश्वास-प्रस्तुतिः
न हैषां विहवे ऽन्य इन्द्रं वृङ्क्ते यत्रैवं विद्वान्ब्राह्मणाच्छंस्येतामहरहः शंसति ।
Haug
When the Brāhmaṇāchchhaṁsi, with this knowledge, recites this verse every day, then no other sacrificer, notwithstanding he (Indra) might be called by different parties (at the same time), can get Indra away.
मूलम्
न हैषां विहवे ऽन्य इन्द्रं वृङ्क्ते यत्रैवं विद्वान्ब्राह्मणाच्छंस्येतामहरहः शंसति ।
विश्वास-प्रस्तुतिः
यत्सोम आ सुते नर इत्यछावाकस्य ।
Haug
Yat soma ā sute nara (7, 94, 10) is the verse of the Achchhāvāka.
मूलम्
यत्सोम आ सुते नर इत्यछावाकस्य ।
विश्वास-प्रस्तुतिः
इन्द्राग्नी अजोहवुरितीन्द्राग्नी एवैतयाहरहर्निह्वयन्ते ।
Haug
By its words “they called hither Indrāgnī,” they call Indrāgnī every day.
मूलम्
इन्द्राग्नी अजोहवुरितीन्द्राग्नी एवैतयाहरहर्निह्वयन्ते ।
विश्वास-प्रस्तुतिः
न हैषां विहवे ऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवं विद्वानछावाक एतामहरहः शंसति ।
Haug
When the Achchhāvāka is doing this every day, no other one can wrest (from them) Indrāgnī.
मूलम्
न हैषां विहवे ऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवं विद्वानछावाक एतामहरहः शंसति ।
विश्वास-प्रस्तुतिः
ता वा एताः स्वर्गस्य लोकस्य नावः सम्पारिण्यः ।
Haug
These verses (rijunītî &c.) are the boats which lead to the shores of the heavenly world.
मूलम्
ता वा एताः स्वर्गस्य लोकस्य नावः सम्पारिण्यः ।
विश्वास-प्रस्तुतिः
स्वर्गमेवैताभिर्लोकमभिसंतरन्ति ।
Haug
By their means the sacrificers cross (the sea) and reach the heavenly world.
मूलम्
स्वर्गमेवैताभिर्लोकमभिसंतरन्ति ।