०४

देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति तान्दक्षिणत उपायन्यत एषां यज्ञस्य तनिष्ठममन्यन्त ते देवाः प्रतिबुध्य मित्रावरुणौ दक्षिणतः पर्यौहंस्ते मित्रावरुणाभ्यामेव दक्षिणतः प्रातःसव-नेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना मित्रावरुणाभ्यामेव दक्षिणतः प्रातः-सवनेऽसुररक्षंस्यपघ्नते तस्मान्मैत्रावरुणम्मैत्रावरुणः प्रातःसवने शंसति मित्रा-वरुणाभ्यां हि देवा दक्षिणतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत ते वै दक्षिण-तोऽपहता असुरा मध्यतो यज्ञम्प्राविशंस्ते देवाः प्रतिबुध्येन्द्र म्मध्यतोऽदधुस्त इन्द्रे णैव मध्यतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना इन्द्रे णैव मध्य-तः प्रातःसवनेऽसुररक्षांस्यपघ्नते तस्मादैन्द्र म्ब्राह्मणाच्छंसी प्रातःसवने शं-सतीन्द्रे ण हि देवा मध्यतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत ते वै मध्यतोऽपहता असुरा उत्तरतो यज्ञम्प्राविशंस्ते देवाः प्रतिबुध्येन्द्रा ग्नी उत्तरतः पर्यौहंस्त इन्द्रा ग्निभ्यां एवोत्तरतः प्रातःसवनेऽसुरराक्षांस्यपाघ्नत तथैवैतद्यजमाना इन्द्रा -ग्निभ्यामेवोत्तरतः प्रातःसवनेऽसुररक्षांस्यपघ्नते तस्मादैन्द्रा ग्नमछावाकः प्रातः-सवने शंसतीन्द्रा ग्निभ्यां हि देवा उत्तरतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत ते वा उत्तरतोऽपहता असुराः पुरस्तात्पर्यद्र वन्समनीकतस्ते देवाः प्रतिबुध्याग्नि-म्पुरस्तात्प्रातःसवने पर्यौहंस्तेऽग्निनैव पुरस्तात्प्रातःसवनेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना अग्निनैव पुरस्तात्प्रातःसवनेऽसुररक्षांस्यपघ्नते तस्मादाग्नेय-म्प्रातःसवनमप पाप्मानं हते य एवं वेद ते वै पुरस्तादपहता असुराः पश्चात्परीत्य प्राविशंस्ते देवाः प्रतिबुध्य विश्वान्देवानात्मानं पश्चात्तृतीयसवने पर्यौहंस्ते विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवनेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवनेऽसुररक्षांस्यपघ्नते तस्माद्वैश्वदेवं तृतीय-सवनमप पाप्मानं हते य एवं वेद ते वै देवा असुरानेवमपाघ्नत सर्वस्मादेव यज्ञात्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद ते देवा एवं कॢप्तेन यज्ञेनापासुरान्पाप्मानमघ्नताजयन्स्वर्गं लोकमप ह वै द्विषन्तम्पाप्मानम्भ्रातृव्यं हते जयति स्वर्गं लोकं य एवं वेद

यश्चैवं विद्वान्सवनानि कल्पयति ४