विश्वास-प्रस्तुतिः
देवा वै यज्ञमतन्वत ।
Haug
(On the Śastras of the Minor Hotṛi-priests of the Sattras.)
(On the Śastras of the Minor Hotṛi-priests at the Morning and Evening Libations.)
The Devas spread the sacrifice.
मूलम्
देवा वै यज्ञमतन्वत ।
विश्वास-प्रस्तुतिः
तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति ।
Haug
When doing so, the Asuras approached them, thinking, let us obstruct their sacrifice.
मूलम्
तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति ।
विश्वास-प्रस्तुतिः
तान्दक्षिणत उपायन्यत एषां यज्ञस्य तनिष्ठममन्यन्त ।
Haug
They attacked them from the right side, thinking this to be the weak point.
मूलम्
तान्दक्षिणत उपायन्यत एषां यज्ञस्य तनिष्ठममन्यन्त ।
विश्वास-प्रस्तुतिः
ते देवाः प्रतिबुध्य मित्रावरुणौ दक्षिणतः पर्यौहन् ।
Haug
The Devas awoke, and posted two of their number, Mitra and Varuṇa, on the right side.
मूलम्
ते देवाः प्रतिबुध्य मित्रावरुणौ दक्षिणतः पर्यौहन् ।
विश्वास-प्रस्तुतिः
ते मित्रावरुणाभ्यामेव दक्षिणतः प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
Haug
Through the assistance of these two, the Devas drove the Asuras and Rakṣasas away from the morning libation.
मूलम्
ते मित्रावरुणाभ्यामेव दक्षिणतः प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
विश्वास-प्रस्तुतिः
तथैवैतद्यजमाना मित्रावरुणाभ्यामेव दक्षिणतः प्रातःसवने ऽसुररक्षंस्यपघ्नते ।
Haug
And thus the sacrificers drive them away (if they have the Maitrāvaruṇa Śāstra repeated);
मूलम्
तथैवैतद्यजमाना मित्रावरुणाभ्यामेव दक्षिणतः प्रातःसवने ऽसुररक्षंस्यपघ्नते ।
विश्वास-प्रस्तुतिः
तस्मान्मैत्रावरुणम्मैत्रावरुणः प्रातःसवने शंसति ।
Haug
thence the Maitrāvaruṇa priest repeats the Maitrāvaruṇa Śāstra at the morning libation.
मूलम्
तस्मान्मैत्रावरुणम्मैत्रावरुणः प्रातःसवने शंसति ।
विश्वास-प्रस्तुतिः
मित्रावरुणाभ्यां हि देवा दक्षिणतः प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
Haug
The Asuras, defeated on the right side, attacked the centre of the sacrifice.
मूलम्
मित्रावरुणाभ्यां हि देवा दक्षिणतः प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
विश्वास-प्रस्तुतिः
ते वै दक्षिणतो ऽपहता असुरा मध्यतो यज्ञम्प्राविशन् ।
Haug
The Asuras, defeated on the right side, attacked the centre of the sacrifice.
मूलम्
ते वै दक्षिणतो ऽपहता असुरा मध्यतो यज्ञम्प्राविशन् ।
विश्वास-प्रस्तुतिः
ते देवाः प्रतिबुध्येन्द्रम्मध्यतो ऽदधुस्त इन्द्रेणैव मध्यतः प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
Haug
The Devas awoke, posted then Indra, and defeated through his assistance the enemies.
मूलम्
ते देवाः प्रतिबुध्येन्द्रम्मध्यतो ऽदधुस्त इन्द्रेणैव मध्यतः प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
विश्वास-प्रस्तुतिः
तथैवैतद्यजमाना इन्द्रेणैव मध्यतः प्रातःसवने ऽसुररक्षांस्यपघ्नते ।
Haug
Therefore the Brāhmaṇāchchhaṁsī repeats at the morning libation the Indra Śāstra.
मूलम्
तथैवैतद्यजमाना इन्द्रेणैव मध्यतः प्रातःसवने ऽसुररक्षांस्यपघ्नते ।
विश्वास-प्रस्तुतिः
तस्मादैन्द्रम्ब्राह्मणाच्छंसी प्रातःसवने शंसति ।
Haug
Therefore the Brāhmaṇāchchhaṁsī repeats at the morning libation the Indra Śāstra.
मूलम्
तस्मादैन्द्रम्ब्राह्मणाच्छंसी प्रातःसवने शंसति ।
विश्वास-प्रस्तुतिः
इन्द्रेण हि देवा मध्यतः प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
Haug
The Asuras, thus defeated, attacked the sacrifice on the northern side.
मूलम्
इन्द्रेण हि देवा मध्यतः प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
विश्वास-प्रस्तुतिः
ते वै मध्यतो ऽपहता असुरा उत्तरतो यज्ञम्प्राविशन् ।
Haug
The Asuras, thus defeated, attacked the sacrifice on the northern side.
मूलम्
ते वै मध्यतो ऽपहता असुरा उत्तरतो यज्ञम्प्राविशन् ।
विश्वास-प्रस्तुतिः
ते देवाः प्रतिबुध्येन्द्राग्नी उत्तरतः पर्यौहंस्त इन्द्राग्निभ्याम् एवोत्तरतः प्रातःसवने ऽसुरराक्षांस्यपाघ्नत ।
Haug
The Devas posted on this side Indrāgnī, and defeated thus the Asuras.
मूलम्
ते देवाः प्रतिबुध्येन्द्राग्नी उत्तरतः पर्यौहंस्त इन्द्राग्निभ्याम् एवोत्तरतः प्रातःसवने ऽसुरराक्षांस्यपाघ्नत ।
विश्वास-प्रस्तुतिः
तथैवैतद्यजमाना इन्द्राग्निभ्यामेवोत्तरतः प्रातःसवने ऽसुररक्षांस्यपघ्नते ।
Haug
Therefore the Achhāvāka repeats the Aindrāgna Śāstra at the morning libation.
मूलम्
तथैवैतद्यजमाना इन्द्राग्निभ्यामेवोत्तरतः प्रातःसवने ऽसुररक्षांस्यपघ्नते ।
विश्वास-प्रस्तुतिः
तस्मादैन्द्राग्नमच्छावाकः प्रातःसवने शंसति ।
Haug
Therefore the Achhāvāka repeats the Aindrāgna Śāstra at the morning libation.
मूलम्
तस्मादैन्द्राग्नमच्छावाकः प्रातःसवने शंसति ।
विश्वास-प्रस्तुतिः
इन्द्राग्निभ्यां हि देवा उत्तरतः प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
Haug
For, by means of Indrāgni, the Devas drove the Asuras and Rakṣasas away from the northern side.
मूलम्
इन्द्राग्निभ्यां हि देवा उत्तरतः प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
विश्वास-प्रस्तुतिः
ते वा उत्तरतो ऽपहता असुराः पुरस्तात्पर्यद्रवन्समनीकतः ।
Haug
The Asuras, defeated on the northern side, marched, arrayed in battle lines towards the eastern part.
मूलम्
ते वा उत्तरतो ऽपहता असुराः पुरस्तात्पर्यद्रवन्समनीकतः ।
विश्वास-प्रस्तुतिः
ते देवाः प्रतिबुध्याग्निम्पुरस्तात्प्रातःसवने पर्यौहन् ।
Haug
The Devas awoke and posted Agni eastwards at the morning libation.
मूलम्
ते देवाः प्रतिबुध्याग्निम्पुरस्तात्प्रातःसवने पर्यौहन् ।
विश्वास-प्रस्तुतिः
ते ऽग्निनैव पुरस्तात्प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
Haug
Through Agni, the Devas drove the Asuras and Rakṣasas away from the eastern front.
मूलम्
ते ऽग्निनैव पुरस्तात्प्रातःसवने ऽसुररक्षांस्यपाघ्नत ।
विश्वास-प्रस्तुतिः
तथैवैतद्यजमाना अग्निनैव पुरस्तात्प्रातःसवने ऽसुररक्षांस्यपघ्नते ।
Haug
In the same way, the sacrificers drive away from the eastern front the Asuras and Rakṣasas.
मूलम्
तथैवैतद्यजमाना अग्निनैव पुरस्तात्प्रातःसवने ऽसुररक्षांस्यपघ्नते ।
विश्वास-प्रस्तुतिः
तस्मादाग्नेयम्प्रातःसवनम् ।
Haug
Thence the morning libation is Agni’s.
मूलम्
तस्मादाग्नेयम्प्रातःसवनम् ।
विश्वास-प्रस्तुतिः
अप पाप्मानं हते य एवं वेद ।
Haug
He who has such a knowledge, destroys the evil consequences of his sin.
मूलम्
अप पाप्मानं हते य एवं वेद ।
विश्वास-प्रस्तुतिः
ते वै पुरस्तादपहता असुराः पश्चात्परीत्य प्राविशन् ।
Haug
The Asuras, when defeated eastwards, went westwards.
मूलम्
ते वै पुरस्तादपहता असुराः पश्चात्परीत्य प्राविशन् ।
विश्वास-प्रस्तुतिः
ते देवाः प्रतिबुध्य विश्वान्देवानात्मानं पश्चात्तृतीयसवने पर्यौहंस्ते विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवने ऽसुररक्षांस्यपाघ्नत ।
Haug
The Devas awoke and posted the Viśve Devāḥ themselves (westwards) at the third libation, who thus drove the Asuras and Rakṣasas away from the western direction at the third libation.
मूलम्
ते देवाः प्रतिबुध्य विश्वान्देवानात्मानं पश्चात्तृतीयसवने पर्यौहंस्ते विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवने ऽसुररक्षांस्यपाघ्नत ।
विश्वास-प्रस्तुतिः
तथैवैतद्यजमाना विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवने ऽसुररक्षांस्यपघ्नते ।
Haug
Likewise, the sacrificers drive through the Viśve Devāḥ themselves at the third libation the Asuras and Rakṣas away.
मूलम्
तथैवैतद्यजमाना विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवने ऽसुररक्षांस्यपघ्नते ।
विश्वास-प्रस्तुतिः
तस्माद्वैश्वदेवं तृतीयसवनम् ।
Haug
Thence the evening libation belongs to the Viśve Devāḥ.
मूलम्
तस्माद्वैश्वदेवं तृतीयसवनम् ।
विश्वास-प्रस्तुतिः
अप पाप्मानं हते य एवं वेद ।
Haug
He who has such a knowledge, destroys the consequences of his sin.
मूलम्
अप पाप्मानं हते य एवं वेद ।
विश्वास-प्रस्तुतिः
ते वै देवा असुरानेवमपाघ्नत सर्वस्मादेव यज्ञात् ।
Haug
In this manner, the Devas drove the Asuras out of the whole sacrifice.
मूलम्
ते वै देवा असुरानेवमपाघ्नत सर्वस्मादेव यज्ञात् ।
विश्वास-प्रस्तुतिः
ततो वै देवा अभवन्परासुराः ।
Haug
Thence the Devas became masters of the Asuras.
मूलम्
ततो वै देवा अभवन्परासुराः ।
विश्वास-प्रस्तुतिः
भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद ।
Haug
He who has this knowledge becomes therefore through himself (alone) master of his adversary and enemy, and destroys the consequences of his sin.
मूलम्
भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद ।
विश्वास-प्रस्तुतिः
ते देवा एवं कॢप्तेन यज्ञेनापासुरान्पाप्मानमघ्नताजयन्स्वर्गं लोकम् ।
Haug
The Devas drove away the Asuras and destroyed the consequences of sin by means of the sacrifice arranged in such a way, and conquered the heaven-world.
मूलम्
ते देवा एवं कॢप्तेन यज्ञेनापासुरान्पाप्मानमघ्नताजयन्स्वर्गं लोकम् ।
विश्वास-प्रस्तुतिः
अप ह वै द्विषन्तम्पाप्मानम्भ्रातृव्यं हते जयति स्वर्गं लोकं य एवं वेद यश्चैवं विद्वान्सवनानि कल्पयति ।
Haug
He who has this knowledge, and he who, knowing this, prepares (these) libation required in the said manner, drives away his enemy and hater, destroys the consequences of his guilt, and gains the heaven-world.
मूलम्
अप ह वै द्विषन्तम्पाप्मानम्भ्रातृव्यं हते जयति स्वर्गं लोकं य एवं वेद यश्चैवं विद्वान्सवनानि कल्पयति ।