०३

वाग्वै सुब्रह्मण्या तस्यै सोमो राजा वत्सह् सोमे राजनि क्रीते सुब्रह्मण्यामाह्वयन्ति यथा धेनुमुपह्वयेत्तेन वत्सेन यजमानाय सर्वान्कामान्दुहे सर्वान्हास्मै कामान्वाग्दुहे य एवं वेद तदाहुः किं सुब्रह्मण्यायै सुब्रह्मण्या-त्वमिति वागेवेति ब्रूयाद्वाग्वै ब्रह्म च सुब्रह्म चेति तदाहुरथ कस्मादेनम्पुमांसं सन्तं स्त्रीमिवाचक्षत इति वाग्घि सुब्रह्मण्येति ब्रूयात्तेनेति तदाहुर्यदन्तर्वेदीतर ऋत्विज आर्त्विज्यं कुर्वन्ति बहिर्वेदि सुब्रह्मण्या कथमस्यान्तर्वेद्यार्त्विज्यं कृतम्भवतीति वेदेर्वा उत्करमुत्किरन्ति यदेवोत्करे तिष्ठन्नाह्वयतीति ब्रूयात्तेनेति तदाहुरथ कस्मादुत्करे तिष्ठन्सुब्रह्मण्यामाह्वयतीत्यृषयो वै सत्रमासत तेषां यो वर्षिष्ठ आसीत्तमब्रुवन्सुब्रह्मण्यामाह्वय त्वं नो नेदिष्ठाद्देवान्ह्वयिष्यसीति वर्षिष्ठमेवैनं तत्कुर्वन्त्यथो वेदिमेव तत्सर्वाम्प्रीणाति तदाहुः कस्मादस्मा ऋषभं दक्षिणामभ्याजन्तीति वृषा वा ऋषभो योषा सुब्रह्मण्या तन्मिथुनं तस्य मिथुनस्य प्रजात्या इत्युपांशु पात्नीवतस्याग्निध्रो यजति रेतो वै पात्नीवत उपांश्विव वै रेतसः सिक्तिर्नानुवषट्करोति संस्था वा एषा यदनुवषट्कारो नेद्रे तः संस्थापयानीत्यसंस्थितं वै रेतसः समृद्धं तस्मान्नानुवषट्करोति नेष्टु-रुपस्थ आसीनो भक्षयति पन्तीभाजनं वै नेष्टाग्निः पत्नीषु रेतो दधाति प्रजात्या अग्निनैव तत्पत्नीषु रेतो दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद दक्षिणा अनु सुब्रह्मण्या संतिष्ठते वाग्वै सुब्रह्मण्यान्नं दक्षिणान्नाद्य एव तद्वाचि

यज्ञमन्ततः प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति ३