०२

विश्वास-प्रस्तुतिः

तदाहुः कियतीभिरभिष्टुयादिति ।

Haug

(How Many Verses are to be Repeated over the Grâvaṇas. How they ought to be Repeated. They are Required only at the Midday Libation. No Order for Repeating them Necessary.)

They say, With how many mantras should he (the Grāvastut) pray over the Soma squeezing stones?

मूलम्

तदाहुः कियतीभिरभिष्टुयादिति ।

विश्वास-प्रस्तुतिः

शतेनेत्याहुः शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रियः ।

Haug

The answer is, with a hundred; for the life of a man is a hundred years, he has a hundred powers, and a hundred bodily organs;

मूलम्

शतेनेत्याहुः शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रियः ।

विश्वास-प्रस्तुतिः

आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति ।

Haug

by doing so, he makes man participate in age, strength, and bodily organs.

मूलम्

आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति ।

विश्वास-प्रस्तुतिः

त्रयस्त्रिंशता वेत्याहुः ।

Haug

(Others) say, He ought to repeat thirty-three verses,

मूलम्

त्रयस्त्रिंशता वेत्याहुः ।

विश्वास-प्रस्तुतिः

त्रयस्त्रिंशतो वै स देवानाम्पाप्मनो ऽपाहन् ।

Haug

for he (the Serpent Rishi) destroyed the sins of thirty-three gods,

मूलम्

त्रयस्त्रिंशतो वै स देवानाम्पाप्मनो ऽपाहन् ।

विश्वास-प्रस्तुतिः

त्रयस्त्रिंशद्वै तस्य देवा इति ।

Haug

for there are thirty-three gods.

मूलम्

त्रयस्त्रिंशद्वै तस्य देवा इति ।

विश्वास-प्रस्तुतिः

अपरिमिताभिरभिष्टुयात् ।

Haug

(Others) say, He ought to recite an unlimited number of such mantras.

मूलम्

अपरिमिताभिरभिष्टुयात् ।

विश्वास-प्रस्तुतिः

अपरिमितो वै प्रजापतिः प्रजापतेर्वा एषा होत्रा यद्ग्रावस्तोत्रीया तस्यां सर्वे कामा अवरुध्यन्ते ।

Haug

For Prajāpati is unlimited; and this recital of the mantras referring to the Soma squeezing stones belongs to Prajāpati, and in it all desires are comprised.

मूलम्

अपरिमितो वै प्रजापतिः प्रजापतेर्वा एषा होत्रा यद्ग्रावस्तोत्रीया तस्यां सर्वे कामा अवरुध्यन्ते ।

विश्वास-प्रस्तुतिः

स यदपरिमिताभिरभिष्टौति सर्वेषां कामानामवरुद्ध्यै सर्वान्कामानवरुन्द्धे य एवं वेद ।

Haug

Who does so, obtains all he desires.

मूलम्

स यदपरिमिताभिरभिष्टौति सर्वेषां कामानामवरुद्ध्यै सर्वान्कामानवरुन्द्धे य एवं वेद ।

विश्वास-प्रस्तुतिः

तस्मादपरिमिताभिरेवाभिष्टुयात् ।

Haug

Thence he ought to repeat an unlimited number of such mantras.

मूलम्

तस्मादपरिमिताभिरेवाभिष्टुयात् ।

विश्वास-प्रस्तुतिः

तदाहुः कथमभिष्टुयादित्यक्षरशाः चतुरक्षरशाः पच्छाः अर्धर्चशाः ऋक्शाः इति ।

Haug

Now they ask, In what way should he repeat these mantras (over the Soma squeezing stones)? Syllable by syllable, or should he take four syllables together, or pāda by pāda, or half verse by half verse, or verse by verse?

मूलम्

तदाहुः कथमभिष्टुयादित्यक्षरशाः चतुरक्षरशाः पच्छाः अर्धर्चशाः ऋक्शाः इति ।

विश्वास-प्रस्तुतिः

तद्यदृक्शो न तदवकल्पते ।

Haug

With whole verses (repeated without stopping) one does not perform any ceremony,

मूलम्

तद्यदृक्शो न तदवकल्पते ।

विश्वास-प्रस्तुतिः

अथ यत्पच्छो नो एव तदवकल्पते ।

Haug

nor with stopping at every pāda.

मूलम्

अथ यत्पच्छो नो एव तदवकल्पते ।

विश्वास-प्रस्तुतिः

अथ यदक्षरशश्चतुरक्षरशो वि तथा छन्दांसि लुप्येरन्बहूनि तथाक्षराणि हीयेरन् ।

Haug

If the verses are repeated with stopping at every syllable, or every four syllables, then the metres become mutilated, for many syllables (sounds) would thus be lost.

मूलम्

अथ यदक्षरशश्चतुरक्षरशो वि तथा छन्दांसि लुप्येरन्बहूनि तथाक्षराणि हीयेरन् ।

विश्वास-प्रस्तुतिः

अर्धर्चश एवाभिष्टुयात्प्रतिष्ठाया एव ।

Haug

Thence he ought to (repeat) these mantras one half verse by another.

मूलम्

अर्धर्चश एवाभिष्टुयात्प्रतिष्ठाया एव ।

विश्वास-प्रस्तुतिः

द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवः ।

Haug

For man has two legs, and cattle are four-footed.

मूलम्

द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवः ।

विश्वास-प्रस्तुतिः

यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ।

Haug

By doing so, he places the two-legged sacrificer among the four-legged cattle.

मूलम्

यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ।

विश्वास-प्रस्तुतिः

तस्मादर्धर्चश एवाभिष्टुयात् ।

Haug

Thence he ought to repeat these mantras by half verses.

मूलम्

तस्मादर्धर्चश एवाभिष्टुयात् ।

विश्वास-प्रस्तुतिः

तदाहुर्यन्मध्यंदिनेमध्यंदिन एव ग्राव्णो ऽभिष्टौति कथमस्येतरयोः सवनयोरभिष्टुतम्भवतीति ।

Haug

Since the Grāvastut repeats only at every midday libation mantras over the Soma squeezing stones, how do mantras become repeated over them at the two other (morning and evening) libations?

मूलम्

तदाहुर्यन्मध्यंदिनेमध्यंदिन एव ग्राव्णो ऽभिष्टौति कथमस्येतरयोः सवनयोरभिष्टुतम्भवतीति ।

विश्वास-प्रस्तुतिः

यदेव गायत्रीभिरभिष्टौति गायत्रं वै प्रातःसवनं तेन प्रातःसवने ।

Haug

By repeating verses in the Gāyatrī metre, he provides for the morning libation; for the Gāyatrī metre is appropriate to the morning libation;

मूलम्

यदेव गायत्रीभिरभिष्टौति गायत्रं वै प्रातःसवनं तेन प्रातःसवने ।

विश्वास-प्रस्तुतिः

अथ यज्जगतीभिरभिष्टौति जागतं वै तृतीयसवनं तेन तृतीयसवने ।

Haug

and by repeating verses in the Jagatī metre, he provides for the Jagatī metre is appropriate to the evening libation.

मूलम्

अथ यज्जगतीभिरभिष्टौति जागतं वै तृतीयसवनं तेन तृतीयसवने ।

विश्वास-प्रस्तुतिः

एवमु हास्य मध्यंदिनेमध्यंदिन एव ग्राव्णो ऽभिष्टुवतः सर्वेषु सवनेष्वभिष्टुतम्भवति य एवं वेद ।

Haug

In this way he who, with this knowledge, repeats the mantras over the Soma squeezing stones only at the midday libation, supplies these praises for the morning and eveving libations.

मूलम्

एवमु हास्य मध्यंदिनेमध्यंदिन एव ग्राव्णो ऽभिष्टुवतः सर्वेषु सवनेष्वभिष्टुतम्भवति य एवं वेद ।

विश्वास-प्रस्तुतिः

तदाहुर्यदध्वर्युरेवान्यानृत्विजः सम्प्रेष्यात्यथ कस्मादेष एतामसम्प्रेषितः प्रतिपद्यत इति ।

Haug

They say, What is the reason, that, whilst the Adhvaryu calls upon the other priests to do their respective duties, the Grāvastut repeats this mantra without being called upon (without receiving a prāiṣa)?

मूलम्

तदाहुर्यदध्वर्युरेवान्यानृत्विजः सम्प्रेष्यात्यथ कस्मादेष एतामसम्प्रेषितः प्रतिपद्यत इति ।

विश्वास-प्रस्तुतिः

मनो वै ग्रावस्तोत्रीयसम्प्रेषितं वा इदम्मनस्तस्मादेष एतामसम्प्रेषितः प्रतिपद्यते ।

Haug

The ceremony of repeating mantras over the Soma squeezing stones is of the same nature as the mind which is not called upon. Therefore the Grāvastut repeats his mantra without being called upon.

मूलम्

मनो वै ग्रावस्तोत्रीयसम्प्रेषितं वा इदम्मनस्तस्मादेष एतामसम्प्रेषितः प्रतिपद्यते ।