०२

तदाहुः कियतीइभिरभिष्टुयादिति शतेनेत्याहुः शतायुर्वै पुरुषः शतवीर्यः शते-न्द्रि य आयुष्येवैनं तद्वीर्य इन्द्रि ये दधाति त्रयस्त्रिंशता वेत्याहुस्त्रयस्त्रिंशतो वै स देवानाम्पाप्मनोऽपाहंस्त्रयस्त्रिंशद्वै तस्य देवा इत्यपरिमिताभिरभिष्टुया-दपरिमितो वै प्रजापतिः प्रजापतेर्वा एषा होत्रा यद्ग्रावस्तोत्रीया तस्यां सर्वे कामा अवरुध्यन्ते स यदपरिमिताभिरभिष्टौति सर्वेषां कामानामवरुद्ध्यै सर्वान्का-मानवरुन्द्धे य एवं वेद तस्मादपरिमिताभिरेवाभिष्टुयात्तदाहुः कथमभि-ष्टुयादित्यक्षरशाः चतुरक्षरशाः पच्छाः अर्धर्चशाः ऋक्शाः इति तद्यदृक्शो न तदवकल्पतेऽथ यत्पच्छो नो एव तदवकल्पतेऽथ यदक्षरशश्चतुरक्षरशो वि तथा छन्दांसि लुप्येरन्बहूनि तथाक्षराणि हीयेरन्नर्धर्चश एवाभिष्टुयात्प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजामनमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति तस्मादर्धर्चश एवाभिष्टुयात्तदाहुर्यन्मध्यंदिनेमध्यंदिन एव ग्रा-व्णोऽभिष्टौति कथमस्येतरयोः सवनयोरभिष्टुतम्भवतीति यदेव गायत्रीभि-रभिष्टौति गायत्रं वै प्रातःसवनं तेन प्रातःसवने ऽथ यज्जगतीभिरभिष्टौति जागतं वै तृतीयसवनं तेन तृतीयसवन एवमु हास्य मध्यंदिनेमध्यंदिन एव ग्राव्णोऽभिष्टुवतः सर्वेषु सवनेष्वभिष्टुतम्भवति य एवं वेद तदाहुर्यदध्व-र्युरेवान्यानृत्विजः सम्प्रेष्यात्यथ कस्मादेष एतामसम्प्रेषितः प्रतिपद्यत इति मनो

वै ग्रावस्तोत्रीयसम्प्रेषितं वा इदम्मनस्तस्मादेष एतामसम्प्रेषितः प्रतिपद्यते २