०१

देवा ह वै सर्वचरौ सत्रं निषेदुस्ते ह पाप्मानं नापजघ्निरे तान्होवाचार्बुदः काद्र वेयः सर्पऋषिर्मन्त्रकृदेका वै वो होत्राकृता तां वोऽहं करवाण्यथ पाप्मानमपहनिष्यध्व इति ते ह तथेत्यूचुस्तेषां ह स्म स मध्यंदिने-मध्यंदिन एवोपोदासर्पन्ग्राव्णोऽभिष्टौति तस्मान्मध्यंदिनेमध्यंदिन एव ग्राव्णोऽभिष्टुवन्ति तदनुकृति स ह स्म येनोपोदासर्पत्तद्धाप्येतर्ह्यर्बुदोदासर्पणी नाम प्रपदस्ति तान्ह राजा मदयां चकार ते होचुराशीविषो वै नो राजानमवेक्षते हन्तास्योष्णीषे-णाक्ष्यावपिनह्यामेति तथेति तस्य होष्णीषेणक्ष्यावपिनेहुस्तस्मादुष्णीषमेव पर्यस्य ग्राव्णोऽभिष्टुवन्ति तदनुकृति तान्ह राजा मदयामेव चकार ते होचुः स्वेन वै नो मन्त्रेण ग्राव्णोऽभिष्टौतीति हन्तास्यान्याभिरृग्भिर्मन्त्रमापृनचामेति तथेति तस्य हान्याभिरृग्भिर्मन्त्रमापपृचुस्ततो हैनान्न मदयां चकार तद्य-दस्यान्याभिरृग्भिर्मन्त्रमापृञ्चन्ति शान्त्या एव ते ह पाप्मानमपजघ्निरे तेषाम-न्वपहतिं सर्पाः पाप्मानमपजघ्निरे त एतेऽपहतपाप्मानो हित्वा पूर्वां जीर्णां त्वचं

नवयैव प्रयन्त्यप पाप्मानं हते य एवं वेद १