३४

तदाहुर्यद्ग्रहान्मेऽग्रहीत्प्राचारीन्म आहुतीर्मेऽहौषीदित्यध्वर्यवे दक्षिणा नीयन्त उदगासीन्म इत्युद्गात्रेऽन्ववोचन्मेऽशंसीन्मेऽयाक्षीन्म इति होत्रे किं स्विदेव चक्रुषे ब्रह्मणे दक्षिणा नीयन्तेऽकृत्वाहो स्विदेव हरन्ता इति यज्ञस्य हैष भिषग्यद्ब्रह्मा यज्ञायैव तद्भेषजं कृत्वा हरत्यथो यद्भूयिष्ठेनैव ब्रह्मणा छन्दसां रसेनार्त्विज्यं करोति यद्ब्रह्मा तस्माद्ब्रह्मार्धभाग्घ वा एष इतरेषामृत्विजामग्र आस यद्ब्रह्मार्धमेव ब्रह्मण आसार्धमितरेषामृत्विजां तस्माद्यदि यज्ञ ऋक्त आर्तिः स्याद्यदि यजुष्टो यदि सामतो यद्यविज्ञाता सर्वव्यापद्वा ब्रह्मण एव निवेदयन्ते तस्माद्यदि यज्ञ ऋक्त आर्तिर्भवति भूरिति ब्रह्मा गार्हपत्ये जुहुयाद्यदि यजुष्टो भुव इत्याग्नीध्रीयेऽन्वाहार्यपचने वा हविर्यज्ञेषु यदि सामतः स्वरित्याहवनीये यद्यविज्ञाता सर्वव्यापद्वा भूर्भुवः स्वरिति सर्वा अनुद्रु-त्याहवनीय एव जुहुयत्स प्रस्तोतोपाकृते स्तोत्र आह ब्रह्मन्स्तोष्यामः प्रशा-स्तरिति स भूरिति ब्रह्मा प्रातःसवने ब्रूयादिन्द्र वन्तः स्तुध्वमिति भुव इति माध्यंदिने सवने ब्रूयादिन्द्र वन्तः स्तुध्वमिति स्वरिति तृतीयसवने ब्रूयादि-न्द्र वन्तः स्तुध्वमिति भूर्भुवः स्वरित्युक्थे वातिरात्रे वा ब्रूयादिन्द्र वन्तः स्तुध्वमिति स यदाहेन्द्र वन्तः स्तुध्वमित्यैन्द्रो वै यज्ञ इन्द्रो यज्ञस्य देवता सेन्द्र मेव तदुद्गीथं करोतीन्द्रा न्मा गादिन्द्र वन्तः स्तुध्वमिति एवैनांस्तदाह तदाह

३४

इति पञ्चमपञ्चिका समाप्ता