तदाहुर्महावदाः यदृचैव हौत्रं क्रियते यजुषाध्वर्यवं साम्नोद्गीथं व्यारब्धा त्रयी विद्या भवत्यथ केन ब्रह्मत्वं क्रियत इति त्रय्या विद्ययेति ब्रूयादयं वै यज्ञो योऽयम्पवते तस्य वाक्च मनश्च वर्तन्यौ वाचा च हि मनसा च यज्ञो वर्तत इयं वै वागदो मनस्तद्वाचा त्रय्या विद्ययैकम्पक्षं संस्कुर्वन्ति मनसैव ब्रह्मा संस्करोति ते हैके ब्रह्माण उपाकृते प्रातरनुवाके स्तोमभागाञ्जपित्वा भाषमाणा उपासते तद्धैतदुवाच ब्राह्मण उपाकृते प्रातरनुवाके ब्रह्माणम्भाषमानं दृष्ट्वार्धमस्य यज्ञस्यान्तरगुरिति तद्यथैकपात्पुरुषो यन्नेकतश्चक्रो वा रथो वर्तमानो भ्रेषं न्येत्येवमेव स यज्ञो भ्रेषं न्येति यज्ञस्य भ्रेषमनु यजमानो भ्रेषं न्येति तस्माद्ब्रह्मोपाकृते प्रातरौवाके वाचंयमः स्यादोपांश्वन्तर्यामयोर्होमादुपाकृतेषु पवमानेष्वोदृचोऽथ यानि स्तोत्राणि सशस्त्राण्या तेषां वषट्काराद्वाचंयम एव स्यात्तद्यथोभयतःपात्पुरोषो यन्नुभयतश्चक्रो वा रथो वर्तमानो न रिष्यत्येवमेव स
यज्ञो न रिष्यति यज्ञस्यारिष्टिमनु यजमानो न रिष्यति ३३