उद्यन्नु खलु वा आदित्य आहवनीयेन रश्मीन्संदधाति स योऽनुदिते जुहोति यथा कुमाराअ वा वत्साय वाजाताय स्तनम्प्रतिदध्यात्तादृक्तदथ य उदिते जुहोति यथा कुमाराय वा वत्साय वा जाताय स्तनम्प्रतिदध्यात्तादृक्तत्तमस्मै प्रतिधीयमानमुभयोर्लोकयोरन्नाद्यमनु प्रतिधीयतेऽस्माच्च लोकादमुष्मच्चोभाभ्यां स योऽनुदिते जुहोति यथा पुरुषाय वा हस्तिने वाप्रयते हस्त आद-ध्यात्ताद्रि क्तदथ य उदिते जुहोति यथा पुरुषाय वा हस्तिने वा प्रयते हस्त आदध्यात्तादृक्तत्तमेष एतेनैव हस्तेनोर्ध्वं हृत्वा स्वर्गे लोक आदधाति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यमुद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति तस्मादेनम्प्राण चा!क्षते प्राणे हास्य सम्प्रति हुतम्भवति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यमेष ह वै सत्यं वदन्सत्ये जुहोति योऽस्तमिते सायं जुहोत्युदिते प्रातर्भूर्भुवः स्वरोमग्निर्ज्योतिर्ज्योतिरग्निरिति सायं जुहोति भूर्भुवः स्वरॐ सूर्यो ज्योतिर्ज्योतिः सूर्य इति प्रातः सत्यं हास्य वदतः सत्ये हुतम्भवति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यं तदेषाभि यज्ञगाथा गीयते प्रताःप्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रन्दिवा
कीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम् इति ३१