विश्वास-प्रस्तुतिः
एते ह वै संवत्सरस्य चक्रे यदहोरात्रे ।
Haug
(Several Stanzas Quoted Regarding the Necessity to bring the Agnihotram After Sunrise.)
Day and night are the two wheels of the year.
मूलम्
एते ह वै संवत्सरस्य चक्रे यदहोरात्रे ।
विश्वास-प्रस्तुतिः
ताभ्यामेव तत्संवत्सरमेति ।
Haug
By means of both, he passes the year.
मूलम्
ताभ्यामेव तत्संवत्सरमेति ।
विश्वास-प्रस्तुतिः
स यो ऽनुदिते जुहोति यथैकतश्चक्रेण यायात्तादृक्तत् ।
Haug
He who sacrifices before sunrise, goes by one wheel, as it were, only.
मूलम्
स यो ऽनुदिते जुहोति यथैकतश्चक्रेण यायात्तादृक्तत् ।
विश्वास-प्रस्तुतिः
अथ य उदिते जुहोति यथोभयतश्चक्रेण यान्क्षिप्रमध्वानं समश्नुवीत तादृक्तत् ।
Haug
But he who sacrifices after sunrise, is going through the year with both wheels, as it were, and reaches his destination soon.
मूलम्
अथ य उदिते जुहोति यथोभयतश्चक्रेण यान्क्षिप्रमध्वानं समश्नुवीत तादृक्तत् ।
विश्वास-प्रस्तुतिः
तदेषा ऽभि यज्ञगाथा गीयते बृहद्रथंतराभ्यामिदमेति युक्तं यद्भूतं भविष्यच्चापि सर्वं ताभ्यामियादग्नीनाधाय धीरो दिवैवान्यज्जुहुयान्नक्तमन्यदिति ।
Haug
There is a sacrificial Gâthâ (stanza) which runs as follows : “All that was, and will be, is connected with the two Sâmans, Bṛihat and Rathantaram, and subsists through them. The wise man, after having established the sacred hearths (the Agnihotrî), shall bring a different sacrifice at day, and a different one at night (i. e., devoted to different deities).”
मूलम्
तदेषा ऽभि यज्ञगाथा गीयते बृहद्रथंतराभ्यामिदमेति युक्तं यद्भूतं भविष्यच्चापि सर्वं ताभ्यामियादग्नीनाधाय धीरो दिवैवान्यज्जुहुयान्नक्तमन्यदिति ।
विश्वास-प्रस्तुतिः
राथन्तरी वै रात्र्यहर्बार्हतम् ।
Haug
The night belongs to the Rathantaram, the day to the Bṛihat.
मूलम्
राथन्तरी वै रात्र्यहर्बार्हतम् ।
विश्वास-प्रस्तुतिः
अग्निर्कै रथंतरमादित्यो बृहत् ।
Haug
Agni is the Rathantaram, Âditya the Bṛihat.
मूलम्
अग्निर्कै रथंतरमादित्यो बृहत् ।
विश्वास-प्रस्तुतिः
एते ह वा एनं देवते ब्रध्नस्य विष्टपं स्वर्गं लोकं गमयतो य एवं विद्वानुदिते जुहोति ।
Haug
Both these deities cause him to go to the heaven-world, to the place of splendour (bradhna), who with this knowledge sacrifices (the Agnihotram) after sunrise.
मूलम्
एते ह वा एनं देवते ब्रध्नस्य विष्टपं स्वर्गं लोकं गमयतो य एवं विद्वानुदिते जुहोति ।
विश्वास-प्रस्तुतिः
तस्मादुदिते होतव्यम् ।
Haug
Thence it is to be sacrificed after sunrise.
मूलम्
तस्मादुदिते होतव्यम् ।
विश्वास-प्रस्तुतिः
तदेषा ऽभि यज्ञगाथा गीयते यथा ह वा ऽस्थूरिणैकेन यायादकृत्वा ऽन्यदुपयोजनाय एवं यन्ति ते बहवो जनासः पुरोदयाज्जुह्वति ये ऽग्निहोत्रमिति ।
Haug
Regarding this, there is a sacrificial Gâthâ chanted, which runs as follows : “Just as a man who drives with one pack-horse only without purchasing another one, act all those men who bring the Agnihotram before sunrise.”
मूलम्
तदेषा ऽभि यज्ञगाथा गीयते यथा ह वा ऽस्थूरिणैकेन यायादकृत्वा ऽन्यदुपयोजनाय एवं यन्ति ते बहवो जनासः पुरोदयाज्जुह्वति ये ऽग्निहोत्रमिति ।
विश्वास-प्रस्तुतिः
तां वा एतां देवतां प्रयतीं सर्वमिदमनुप्रैति यदिदं किञ्च ।
Haug
For all beings whatever follow this deity (Âditya) when he stretches (the arms at sunrise and sunset).
मूलम्
तां वा एतां देवतां प्रयतीं सर्वमिदमनुप्रैति यदिदं किञ्च ।
विश्वास-प्रस्तुतिः
तस्यै हीदं देवताया अनुचरं सर्वं यदिदं किञ्च ।
Haug
He who has this knowledge, is followed by this deity, after whom all follows, and he follows her.
मूलम्
तस्यै हीदं देवताया अनुचरं सर्वं यदिदं किञ्च ।
विश्वास-प्रस्तुतिः
सैषा ऽनुचरवती देवता ।
Haug
This is a deity who has an attendant.
मूलम्
सैषा ऽनुचरवती देवता ।
विश्वास-प्रस्तुतिः
विन्दते ह वा अनुचरं भवत्यस्यानुचरो य एवं वेद ।
Haug
He who knows this, finds an attendant, and an attendant becomes his.
मूलम्
विन्दते ह वा अनुचरं भवत्यस्यानुचरो य एवं वेद ।
विश्वास-प्रस्तुतिः
स वा एष एकातिथिः स एष जुह्वत्सु वसति ।
Haug
For this Âditya is the “one guest” who lives among those who bring the sacrifice after sunrise.
मूलम्
स वा एष एकातिथिः स एष जुह्वत्सु वसति ।
विश्वास-प्रस्तुतिः
तद्यददो गाथा भवति अनेनसमेनसा सो ऽभिशस्तादेनस्वतो वा ऽपहरादेनः एकातिथिमप सायं रुणद्धि बिसानि स्तेनो अपसो जहारेति ।
Haug
Concerning this there is a Gâthâ (stanza, which runs as follows) : “He who has stolen lotus fibres, and does not receive (even) one guest on the evening, will charge with this guilt the not guilty, and take off the guilt from the guilty."[7]
Haug - Notes
[7]Sâyaṇa makes the following remarks on this rather obscure stanza :
पुरा कदाचित्सप्तर्षीणां संवादप्रसङ्गे कश्चित्पुरुषो बिसस्तैन्यलक्षणमपवादं प्राप्य तत्परिहारार्थमृषीणामग्रे शपथं चकार । तदीयशपथोक्तिरूपेयं गाथा बिसानि पद्ममूलानि तेषामपहर्ता प्रत्यवायपरम्परां प्राप्नोतु ॥ पापरहिते पुरुषे बिसविषयमपवादं कृतवतो यः प्रत्यवायः पापिनः पुरुषस्य सम्बन्धी पापं स्वीकुर्वतो यः प्रत्यवायः सायङ्काले गृहे समागच्छत एवातिथेर्वैदेशिकस्यापरोधने यः प्रत्यवायः सेयं प्रत्यवायपरम्परा बिसस्तैन्ये सति मम भूयादित्येवं शपथः । अक्षरार्थस्तु अप्रसिद्धो मादृश: पुरुषस्तेनश्चोरो भूत्वा बिसान्यपजहार चेत् स पुमान् अनेनसं पापरहितं पुरुषं श्रोत्रियं एनसा ओभिशस्तात् पापेनाभिशंसनमपवादं कुर्यात् । तथैष स बिसापहारसायङ्काले गृहे समागतं एकातिथिमपरुणद्धि भोजनमदत्वा निःसारयेत् ॥
The stealing of bisâni, i.e., lotus fibres, from a tank appears to have been a great offence in ancient times. Not to receive one guest (at least) on the evening was considered as equally wicked. The man who has committed such crimes will, in order to clear himself from all guilt, charge an innocent man with it. The forms abhiśastât and apaharât have evidently the sense of a future tense, as is the case in other instances also. The stanza in question appears to be very old, and was hardly intelligible even to the author of our Brāhmaṇam. He means by ekâtithiḥ “the one guest,” the sun, which, according to the context, cannot have been the original sense.
मूलम्
तद्यददो गाथा भवति अनेनसमेनसा सो ऽभिशस्तादेनस्वतो वा ऽपहरादेनः एकातिथिमप सायं रुणद्धि बिसानि स्तेनो अपसो जहारेति ।
विश्वास-प्रस्तुतिः
एष ह वै स एकातिथिः स एष जुह्वत्सु वसति ।
Haug
This Âditya is the “one guest” (ekâtithi); he is it “who lives among the sacrificers.”
मूलम्
एष ह वै स एकातिथिः स एष जुह्वत्सु वसति ।
विश्वास-प्रस्तुतिः
एतं वाव स देवतामपरुणद्धि यो ऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति ।
Haug
The man who thinking, it is enough of the Agnihotram, does not sacrifice, to this deity (Âditya), shuts him out from being his guest.
मूलम्
एतं वाव स देवतामपरुणद्धि यो ऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति ।
विश्वास-प्रस्तुतिः
तमेषा देवता ऽपरुद्धा ऽपरुणद्ध्यस्माच्च लोकादमुष्माच्चोभाभ्यां यो ऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति ।
Haug
Therefore this deity, if shut out, shuts such an Agnihotrî out from both this world and that one.
मूलम्
तमेषा देवता ऽपरुद्धा ऽपरुणद्ध्यस्माच्च लोकादमुष्माच्चोभाभ्यां यो ऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति ।
विश्वास-प्रस्तुतिः
तस्माद्यो ऽलमग्निहोत्राय स्याज्जुहुयात् ।
Haug
Therefore he who thinks, it is enough of the Agnihotram, may nevertheless bring sacrifices.
मूलम्
तस्माद्यो ऽलमग्निहोत्राय स्याज्जुहुयात् ।
विश्वास-प्रस्तुतिः
तस्मादाहुर्न सायमतिथिरपरुध्य इति ।
Haug
Thence they say, a guest who comes at evening is not to be sent away.
मूलम्
तस्मादाहुर्न सायमतिथिरपरुध्य इति ।
विश्वास-प्रस्तुतिः
एतद्ध स्म वै तद्विद्वान्नगरी जानश्रुतेय उदितहोमिनमैकादशाक्षं मानुतन्तव्यमुवाच प्रजायामेनं विज्ञातास्मो यदि विद्वान्वा जुहोत्यविद्वान्वेति ।
Haug
It happened that once a learned man, Jānaśruteya, a resident of a town (a Nagarî), said to an Aikādaśākṣa, a descendant of Manutantu, “we recognise from the children, whether one brings the Agnihotram with or without the proper knowledge.”
मूलम्
एतद्ध स्म वै तद्विद्वान्नगरी जानश्रुतेय उदितहोमिनमैकादशाक्षं मानुतन्तव्यमुवाच प्रजायामेनं विज्ञातास्मो यदि विद्वान्वा जुहोत्यविद्वान्वेति ।
विश्वास-प्रस्तुतिः
तस्यो हैकादशाक्षे राष्ट्रमिव प्रजा बभूव ।
Haug
Aikādaśākṣa had as many children as are required to fill a kingdom.
मूलम्
तस्यो हैकादशाक्षे राष्ट्रमिव प्रजा बभूव ।
विश्वास-प्रस्तुतिः
राष्ट्रमिव ह वा अस्य प्रजा भवति य एवं विद्वानुदिते जुहोति ।
Haug
Just as many children will he obtain who brings the Agnihotram after sunrise.
मूलम्
राष्ट्रमिव ह वा अस्य प्रजा भवति य एवं विद्वानुदिते जुहोति ।
विश्वास-प्रस्तुतिः
तस्मादुदिते होतव्यम् ।
Haug
Therefore, the offering should be made after sunrise.
मूलम्
तस्मादुदिते होतव्यम् ।