एते ह वै संवत्सरस्य चक्रे यदहोरात्रे ताभ्यामेव तत्संवत्सरमेति स योऽनुदिते जुहोति यथैकतश्चक्रेण यायात्तादृक्तदथ य उदिते जुहोति यथोभयतश्चक्रेण यान्क्षिप्रमध्वानं समश्न्वीत तादृक्तत्तदेषाभि यज्ञगाथा गीयते बृहद्र थंतरा-भ्यामिदमेति युक्तं यद्भूतं भविष्यच्चापि सर्वं ताभ्यामियादग्नीनाधाय धीरो दिवैवान्यज्जुहुयान्नक्तमन्यद् इति राथन्तरी वै रात्र्यहर्बार्हतमग्निर्कै रथंतरमा-दित्यो बृहदेते ह वा एनं देवते ब्रध्नस्य विष्टपं स्वर्गं लोकं गमयतो य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यं तदेषाभि यज्ञगाथा गीयते यथा ह वा स्थूरिणैकेन यायादकृत्वान्यदुपयोजनाय एवं यन्ति ते बहवो जनासः पुरोदयाज्जुह्वति येऽग्निहोत्रम् इति तां वा एतां देवताम्प्रयतीं सर्वमिदमनुप्रैति यदिदं किंचैतस्यै हीदं देवताया अनुचरं सर्वं यदिदं किंच सैषानुचरवती देवता विन्दते ह वा अनुचरम्भवत्यस्यानुचरो य एवं वेद स वा एष एकातिथिः स
एष जुह्वत्सु वसति तद्यददो गाथा भवति
अनेनसमेनसा सोऽभिशस्तादेनस्वतो वापहरादेनः एकातिथिमप सायं रुणद्धि बिसानि स्तेनो अप सो जहारेत्य् एष ह वै स एकातिथिः स एष जुह्वत्सु वसत्येतं वाव स देवतामपरुणद्धि योऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति तमेषा देवतापरोद्धापरुणद्ध्यस्माच्च लोकादमुष्माच्चोभाभ्यां योऽलमग्निहोत्राय सन्ना-ग्निहोत्रं जुहोति तस्माद्योऽलमग्निहोत्राय स्याज्जुहुयात्तस्मादाहुर्न सायमतिथि-रपरुध्य इत्येतद्ध स्म वै तद्विद्वान्नगरी जानश्रुतेय उदितहोमिनमैकादशा-क्षम्मानुतन्तव्यमुवाच प्रजायामेनं विज्ञाता स्मो यदि विद्वान्वा जुहोत्यविद्वा-न्वेति तस्यो हैकादशाक्षे राष्ट्रमिव प्रजा बभूव राष्ट्रमिव ह वा अस्य प्रजा भवति
य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यम् ३०