वृषशुष्मो ह वातावत उवाच जातूकर्ण्यो वक्ता स्मो वा इदं देवेभ्यो यद्वै तदग्निहोत्रमुभयेद्युरहूयतान्येदुर्वाव तदेतर्हि हूयत इत्येतदु होवाच कुमारी गन्धर्वगृहीता वक्ता स्मो वा इदम्पितृभ्यो यद्वै तदग्निहोत्रमुभयेद्युरहूयता-न्येदुर्वाव तदेतर्हि हूयत इत्येतद्वा अग्निहोत्रमन्येद्युर्हूयते यदस्तमिते सायं जुहोत्यनुदिते प्रातरथैतदग्निहोत्रमुभयेद्युर्हूयते यदस्तमिते सायं जुहोत्युदिते प्रातस्तस्मादुदिते होतव्यं चतुर्विंशे ह वै संवत्सरेऽनुदितहोमि गायत्रीलोक-माप्नोति द्वादश उदीतहोमि स यदा द्वौ संवत्सरावनुदिते जुहोत्यथ हास्यैको हुतो भवत्यथ य उदिले जुहोति संवत्सरेणैव संवत्सरमाप्नोति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यमेष ह वा अहोरात्रयोस्तेजसि जुहोति योऽस्तमिते सायं जुहोत्युदिते प्रातरग्निना वै तेजसा रात्रिस्तेजस्वत्यादित्येन तेजसाहस्तेजस्वदहोरात्रयोर्हास्य तेजसि हुतम्भवति य एवं विद्वानुदिते जुहोति
तस्मादुदिते होतव्यम् २९