२८

असौ वा अस्यादित्यो यूपः पृथिवी वेदिरोषधयो बर्हिर्वनस्पतय इध्मा आपः प्रोक्षण्यो दिशः परिधयो यद्ध वा अस्य किंच नश्यति यन्म्रियते यदपाजन्ति सर्वं हैवनं तदमुष्मिँ ल्लोके यथा बर्हिषि दत्तमागछेदेवमागछति य एवं विद्वानग्निहोत्रं जुहोत्युभयान्वा एष देवमनुष्यान्विपर्यासं दक्षिणा नयति सर्वं चेदं यदिदं किंच मनुष्यान्वा एष सायमाहुत्या देवेभ्यो दक्षिणा नयति सर्वं चेदं यदिदं किंच त एते प्रलीना न्योकस इव शेरे मनुष्या देवेभ्यो दक्षिणा नीता देवान्वा एष प्रातराहुत्या मनुष्येभ्यो दक्षिणा नयति सर्वं चेदं यदिदं किंच त एते विविदाना इवोत्पतन्त्यदोऽहं करिष्येऽदो हं गमिष्यामीति वदन्तो यावन्तं ह वै सर्वमिदं दत्त्वा लोकं जयति तावन्तं ह लोकं जयति य एवं विद्वानग्निहोत्रं जुहोत्यग्नये वा एष सायमाहुत्याश्विनमुपाकरोह् तद्वाक्प्रतिगृणाति वाग्-वागित्यग्निना हास्य रात्र्याश्विनं शस्तम्भवति य एवं विद्वानग्निहोत्रं जुहो-त्यादित्याया वा एष प्रातराहुत्या महाव्रतमुपाकरोति तत्प्राणः प्रतिगृणा-त्यन्नमन्नमित्यादित्येन हास्याह्ना महाव्रतं शस्तम्भवति य एवं विद्वानग्निहोत्रं जुहोति तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि विंशतिश्च संवत्सरे सायमाहुतयः सप्त चो एव शतानि विंशतिश्च संवत्सरे प्रातराहुत-यस्तावत्योऽग्नेर्यजुष्मत्य इष्टकाः संवत्सरेण हास्याग्निना चित्येनेष्टम्भवति य

एवं विद्वानग्निहोत्रं जुहोति २८