२७

विश्वास-प्रस्तुतिः

यस्याग्निहोत्र्युपावसृष्टा दुह्यमानोपविशेत्का तत्र प्रायश्चित्तिरिति ।

Haug

(How the priest has to make good certain casualties which may happen when the Agnihotram is offered.)

If the cow of an Agnihotrî[2] which is joined to her calf, sits down during the time of being milked, what is the penance for it?

Haug - Notes

[2]The cow herself is called Agnihotrî.

मूलम्

यस्याग्निहोत्र्युपावसृष्टा दुह्यमानोपविशेत्का तत्र प्रायश्चित्तिरिति ।

विश्वास-प्रस्तुतिः

तामभिमन्त्रयेत यस्माद्भीषा निषीदसि ततो नो अभयं कृधि पशून्नः सर्वान्गोपाय नमो रुद्राय भीह्ळुष इति ।

Haug

He shall repeat over it this mantra. “Why dost thou sit down out of fear? From this grant us safety! Protect all our cattle! Praise to Rudra the giver!”

मूलम्

तामभिमन्त्रयेत यस्माद्भीषा निषीदसि ततो नो अभयं कृधि पशून्नः सर्वान्गोपाय नमो रुद्राय भीह्ळुष इति ।

विश्वास-प्रस्तुतिः

तामुत्थापयेत् उदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् इन्द्राय कृण्वती भागं मित्राय वरुणय चेति ।

Haug

(By repeating the following mantra) he should raise her up. “The divine Aditi (cow) rose, and put long life in the sacrifice, she who provides Indra, Mitra and Varuṇa with their (respective) shares (in the sacrifice).”

मूलम्

तामुत्थापयेत् उदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् इन्द्राय कृण्वती भागं मित्राय वरुणय चेति ।

विश्वास-प्रस्तुतिः

अथास्या उदपात्रमूधसि च मुखे चोपगृह्णीयादथैनां ब्राह्मणाय दद्यात् ।

Haug

Or he may hold on her udder and mouth a vessel filled with water and give her (the cow) then to a Brahman.

मूलम्

अथास्या उदपात्रमूधसि च मुखे चोपगृह्णीयादथैनां ब्राह्मणाय दद्यात् ।

विश्वास-प्रस्तुतिः

सा तत्र प्रायश्चित्तिः ।

Haug

This is another Prâyaśchitta (penance).

मूलम्

सा तत्र प्रायश्चित्तिः ।

विश्वास-प्रस्तुतिः

यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्तिरिति ।

Haug

If the cow of an Agnihotrî, which is joined to her calf, cries during the time of being milked, how is this to be atoned for?

मूलम्

यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्तिरिति ।

विश्वास-प्रस्तुतिः

अशनायां ह वा एष यजमानस्य प्रतिख्याय वाश्यते ।

Haug

If she cries out of hunger, to indicate to the sacrificer what she is in need of,

मूलम्

अशनायां ह वा एष यजमानस्य प्रतिख्याय वाश्यते ।

विश्वास-प्रस्तुतिः

तामन्नमप्यादयेच्छान्त्यै शान्तिर्वा अन्नम् ।

Haug

then he shall give her more food in order to appease her. For food is appeasing.

मूलम्

तामन्नमप्यादयेच्छान्त्यै शान्तिर्वा अन्नम् ।

विश्वास-प्रस्तुतिः

सूयवसाद्भगवती हि भूया इति ।

Haug

The mantra sûyavasâd bhagavatî (1, 164, 40) is to be repeated.

मूलम्

सूयवसाद्भगवती हि भूया इति ।

विश्वास-प्रस्तुतिः

सा तत्र प्रायश्चित्तिः ।

Haug

This is the Prâyaśchitta.

मूलम्

सा तत्र प्रायश्चित्तिः ।

विश्वास-प्रस्तुतिः

यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति ।

Haug

If the cow of an Agnihotrî which is joined to her calf moves during the time of being milked, what is the Prâyaśchitta?

मूलम्

यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति ।

विश्वास-प्रस्तुतिः

सा यत्तत्र स्कन्दयेत्तदभिमृश्य जपेत् यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मायीति ।

Haug

Should she in moving spill (some milk) then he shall stroke her, and whisper (the following words), “What of the milk might have fallen to the ground to-day, what might have gone to the herbs, what to the waters,- may this milk be in my houses, (my) cow, (my) calves, and in me.”

मूलम्

सा यत्तत्र स्कन्दयेत्तदभिमृश्य जपेत् यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मायीति ।

विश्वास-प्रस्तुतिः

तत्र यत्परिशिष्टं स्यात्तेन जुहुयाद्यदलं होमाय स्यात् ।

Haug

He shall then bring a burnt offering with what has remained, if it be sufficient for making the burnt offering (Homa).

मूलम्

तत्र यत्परिशिष्टं स्यात्तेन जुहुयाद्यदलं होमाय स्यात् ।

विश्वास-प्रस्तुतिः

यद्यु वै सर्वं सिक्तं स्यादथान्यामाहूय तां दुग्ध्वा तेन जुहुयात् ।

Haug

Should all in the vessel have been spilt (by the moving of the cow) then he shall call another cow, milk her and bring the burnt offering with that milk, and sacrifice it.

मूलम्

यद्यु वै सर्वं सिक्तं स्यादथान्यामाहूय तां दुग्ध्वा तेन जुहुयात् ।

विश्वास-प्रस्तुतिः

आ त्वेव श्रद्धायै होतव्यम् ।

Haug

It is to be offered alone in faith.[3]

Haug - Notes

[3]The meaning of the sentence: आत्वेव श्रद्धायै होतव्यं is: this (substitute) is to be offered (completely) even including the śraddhâ. This is the formula: अहं श्रद्धा जुहोमि (i.e.) “I offer (this) in faith (as a believing one).”

मूलम्

आ त्वेव श्रद्धायै होतव्यम् ।

विश्वास-प्रस्तुतिः

सा तत्र प्रायश्चित्तिः ।

Haug

This is the Prâyaśchitta.

मूलम्

सा तत्र प्रायश्चित्तिः ।

विश्वास-प्रस्तुतिः

सर्वं वा अस्य बर्हिष्यं सर्वं परिगृहीतं य एवं विद्वानग्निहोत्रं जुहोति ।

Haug

He who with such a knowledge offers the Agnihotram, has (only) offerings in readiness (which are fit) and has (consequently) all (accepted by the gods).

मूलम्

सर्वं वा अस्य बर्हिष्यं सर्वं परिगृहीतं य एवं विद्वानग्निहोत्रं जुहोति ।