यस्याग्निहोत्र्युपावसृष्टा दुह्यमानोपविशेत्का तत्र प्रायश्चित्तिरिति तामभिमन्त्रयेत यस्माद्भीषा निषीदसि ततो नो अभयं क्रिधि पशून्नः सर्वान्गोपाय नमो रुद्रा य मीळ्हुष इति तामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधातिन्द्रा य क्रिण्वती भागम्मित्राय वरुणय चेत्यथास्या उदपात्रमूधसि च मुखे चोपगृह्णीयाद-थैनाम्ब्राह्मणाय दद्यात्सा तत्र प्रायश्चित्तिर्यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्तिरित्यशनायां ह वा एष यजमानस्य प्रतिख्याय वाश्यते तामन्नमप्यादयेच्छान्त्यै शान्तिर्वा अन्नं सूयवसाद्भगवती हि भूया इति सा तत्र प्रायश्चित्तिर्यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति सा यत्तत्र स्कन्दयेत्तदभिमृश्य जपेद्यदद्य दुग्धम्पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः पयो गृहेषु पयो अघ्न्यायाम्पयो वत्सेषु पयो अस्तु तन्मायिति तत्र यत्परिशिष्टं स्यात्तेन जुहुयाद्यदलं होमाय स्याद्यद्यु वै सर्वं सिक्तं स्यादथान्यामाहूय तां दुग्ध्वा तेन जुहुयादा त्वेव श्रद्धायै होतव्यां सा तत्र प्रायश्चित्तिः सर्वं वा अस्य बर्हिष्यं सर्वम्परिगृहीतं य एवं विद्वानग्निहोत्रं जुहोति
२७