उद्धराहवनीयमित्यपराह्ण आह यदेवाह्ना साधु करोति तदेव तत्प्राङुद्धृत्य तदभये निधत्त उद्धराहवनीयमिति प्रातराह यदेव रात्र्या साधु करोति तदेव तत्प्राङुद्धृत्य तदभये निधत्ते यज्ञो वा आहवनीयः स्वर्गो लोक आहवनीयो यज्ञ एव तत्स्वर्गे लोके स्वर्गं लोकं निधत्ते य एवं वेद यो वा अग्निहोत्रं वैश्वदेवं षोळशकलम्पशुषु प्रतिष्ठितं वेद वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन राध्नोति रौद्रं गवि सद्वायव्यमुपावसृष्टमाश्विनं दुह्यमानं सौम्यं दुग्धं वारुणमधिश्रितम्पौष्णं समुदन्तम्मारुतं विष्यन्दमानं वैश्वदेवम्बिन्दुमन्मैत्रं शरोगृहीतं द्यावापृथिवीयमुद्वासितं सावित्रम्प्रक्रान्तं वैष्णवं ह्रियमाणम्बार्ह-स्पत्यमुपसन्नमग्नेः पूर्वाहुतिः प्रजापतेरुत्तरैन्द्रं हुतमेतद्वा अग्निहोत्रं वैश्वदेवं षो-ळशकलम्पशुषु प्रतिष्ठितं वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन
राध्नोति य एवं वेद २६