२५

अध्वर्यो इत्याह्वयते चतुर्होतृषु वदिष्यमाणस्तदाहावस्य रूपमॐ होतस्तथा होतरित्यध्वर्युः प्रतिगृणात्यवसितेऽवसिते दशसु पदेषु तेषां चित्तिः स्रुगासीत्चित्तमाज्यमासीत्वाग्वेदिरासीताधीतम्बर्हिरासीत्केतो अग्निरासी-त्विज्ञातमग्नीदासीत्प्राणो हविरासीत्सामाध्वर्युरासीत्वाचस्पतिर्होतासीत्मन उपवक्तासीत्ते वा एतं ग्रहमगृह्णत वाचस्पते विधे नामन् विधेम ते नाम विधेस्त्वमस्माकं नाम्ना द्यां गछ यां देवाः प्रजापतिगृहपतय ऋद्धिमरा-ध्नुवंस्तामृद्धिं रात्स्यामोऽथ प्रजापतेस्तनूरनुद्र वति ब्रह्मोद्यं चान्नादा चान्नपत्नी चान्नादा तदग्निरन्नपत्नी तदादित्यो भद्रा च कल्याणी चा भद्रा तत्सोमः कल्याणी तत्पशावोऽनिलया चापभया चानिलया तद्वायुर्न ह्येष कदा चनेलयत्यपभया तन्मृत्युः सर्वं ह्येतस्माद्बीभायानाप्ता चानाप्या चानाप्ता तत्पृथिव्यनाप्या त-द्द्यौरनाधृष्या चाप्रतिधृष्या चानाधृष्या तदग्निरप्रतिधृष्या तदादित्योऽपूर्वा चाभ्रातृव्या चापूर्वा तन्मानोऽभ्रातृव्या तत्संवत्सर एता वाव द्वादश प्रजापतेस्तन्व एष कृत्स्नः प्रजापतिस्तत्कृत्स्नम्प्रजापतिमाप्नोति दशममहरथ ब्रह्मोद्यम्वदन्त्यग्निर्गृहपतिरिति हैक आहुः सोऽस्य लोकस्य गृहपतिर्वा-युर्गृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य गृहपतिरसौ वै गृहपतिर्योऽसौ तपत्येष पतिरृतवो गृहा येषां वै गृहपतिं देवं विद्वान्गृहपतिर्भवति राध्नोति स गृहपतिं राध्नुवन्ति ते यजमाना येषां वा अपहतपाप्मानं देवं विद्वा-न्गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं घ्नतेऽध्वर्यो

अरात्स्मारात्स्म २५