विश्वास-प्रस्तुतिः
अध्वर्यो इत्याह्वयते चतुर्होतृषु वदिष्यमाणस्तदाहावस्य रूपम् ।
Haug
(The Chaturhotṛi Mantras. The Bodies of Prajâpati. The Brahmodyam. The Sacrificers take their Seats in Heaven.)
When the Hotar is about to repeat the Chaturhotṛi mantra, he cries, “Adhvaryu!” This is the proper form of âhâva (at this occasion, and not śoṁsâvôm).
मूलम्
अध्वर्यो इत्याह्वयते चतुर्होतृषु वदिष्यमाणस्तदाहावस्य रूपम् ।
विश्वास-प्रस्तुतिः
ॐ होतस्तथा होतरित्यध्वर्युः प्रतिगृणाति ।
Haug
The Adhvaryu then responds, “Om, Hotar! tathâ Hotar !
मूलम्
ॐ होतस्तथा होतरित्यध्वर्युः प्रतिगृणाति ।
विश्वास-प्रस्तुतिः
अत्यवसिते ऽवसिते दशसु पदेषु ।
Haug
The Hotar (thereupon) repeats (the Chaturhotṛi mantras), stopping at each of the ten padas!
मूलम्
अत्यवसिते ऽवसिते दशसु पदेषु ।
विश्वास-प्रस्तुतिः
तेषां चित्तिः स्रुगासी३त् चित्तमाज्यमासी३त् वाग्वेदिरासी३त् आधीतं बर्हिरासी३त् केतो अग्निरासी३त् विज्ञातमग्नीदासी३त् प्राणो हविरासी३त् सामाध्वर्युरासी३त् वाचस्पतिर्होता ऽऽसी३त् मन उपवक्ता ऽऽसीत् ।
Haug
(1) Their sacrificial spoon was intelligence! (2) Their offering was endowed with intellect! (3) Their altar was speech ! (4) Their Barhis (seat) was thought ! (5) Their Agni was understanding ! (6) Their Agnidhra was reasoning ! (7) Their offering (havis) was breath ! (8) Their Adhvaryu was the Sâman ! (9) Their Hotar was Vâchaspati ! (10)Their Maitrâvaruṇa (upa-vaktâ) was the mind !
मूलम्
तेषां चित्तिः स्रुगासी३त् चित्तमाज्यमासी३त् वाग्वेदिरासी३त् आधीतं बर्हिरासी३त् केतो अग्निरासी३त् विज्ञातमग्नीदासी३त् प्राणो हविरासी३त् सामाध्वर्युरासी३त् वाचस्पतिर्होता ऽऽसी३त् मन उपवक्ता ऽऽसीत् ।
विश्वास-प्रस्तुतिः
ते वा एतं ग्रहमगृह्णत ।
Haug
(11) They (sacrificers) took (with their mind) the Graha !
मूलम्
ते वा एतं ग्रहमगृह्णत ।
विश्वास-प्रस्तुतिः
वाचस्पते विधे नामन् विधेम ते नाम ।
Haug
(12) O ruler Vâchaspati, O giver, O name! (13) Let us put down thy name!
मूलम्
वाचस्पते विधे नामन् विधेम ते नाम ।
विश्वास-प्रस्तुतिः
विधेस्त्वमस्माकं नाम्ना द्यां गच्छ ।
Haug
(14) May’st thou put down our (names); with (our) names go to heaven (announce our arrival in heaven)!
मूलम्
विधेस्त्वमस्माकं नाम्ना द्यां गच्छ ।
विश्वास-प्रस्तुतिः
यां देवाः प्रजापतिगृहपतय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्यामः ।
Haug
(15) What success the gods who have Prajâpati for their master, gained, the same we shall gain![8]
Haug - Notes
[8]Heaven-world. The gods ascended to heaven by sacrifice. The same is the object of the sacrificers. This is the Graha mantra, recited by the Hotar. Now follow the Prajâpati tanu mantras, and the Brahmodyam. There are twelve Prajâpati tanu mantras; they are repeated by pairs, every time two.
मूलम्
यां देवाः प्रजापतिगृहपतय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्यामः ।
विश्वास-प्रस्तुतिः
अथ प्रजापतेस्तनूरनुद्रवति ब्रह्मोद्यं च ।
Haug
The Hotar now reads the Prajâpati tanu (bodies) mantras, and the Brahmodyam.
मूलम्
अथ प्रजापतेस्तनूरनुद्रवति ब्रह्मोद्यं च ।
विश्वास-प्रस्तुतिः
अन्नादा चान्नपत्नी च ।
Haug
(1 & 2) Eater of food, and mistress of food.
मूलम्
अन्नादा चान्नपत्नी च ।
विश्वास-प्रस्तुतिः
अन्नादा तदग्निरन्नपत्नी तदादित्यः ।
Haug
The eater of food is Agni; the mistress of food is Âditya.
मूलम्
अन्नादा तदग्निरन्नपत्नी तदादित्यः ।
विश्वास-प्रस्तुतिः
भद्रा च कल्याणी च ।
Haug
(3 & 4) The happy and fortunate.
मूलम्
भद्रा च कल्याणी च ।
विश्वास-प्रस्तुतिः
भद्रा तत्सोमः कल्याणी तत्पशवः ।
Haug
By “happy” Soma, and by “fortunate” cattle are meant.
मूलम्
भद्रा तत्सोमः कल्याणी तत्पशवः ।
विश्वास-प्रस्तुतिः
अनिलया चापभया च ।
Haug
(5 & 6) The houseless and the dauntless.
मूलम्
अनिलया चापभया च ।
विश्वास-प्रस्तुतिः
अनिलया तद्वायुर्न ह्येष कदा च नेलयति ।
Haug
“Houseless” is Vâyu, who never lives in a house,
मूलम्
अनिलया तद्वायुर्न ह्येष कदा च नेलयति ।
विश्वास-प्रस्तुतिः
अपभया तन्मृत्युः सर्वं ह्येतस्माद्बीभाय ।
Haug
and “fearless” is Death, for all fear him.
मूलम्
अपभया तन्मृत्युः सर्वं ह्येतस्माद्बीभाय ।
विश्वास-प्रस्तुतिः
अनाप्ता चानाप्या च ।
Haug
(7 & 8) The not reached, and not to be reached.
मूलम्
अनाप्ता चानाप्या च ।
विश्वास-प्रस्तुतिः
अनाप्ता तत्पृथिव्यनाप्या तद्द्यौः ।
Haug
“The not reached” is Earth, and “the not to be reached” is Heaven.
मूलम्
अनाप्ता तत्पृथिव्यनाप्या तद्द्यौः ।
विश्वास-प्रस्तुतिः
अनाधृष्या चाप्रतिधृष्या च ।
Haug
(9 & 10) The unconquerable, and not to be stopped.
मूलम्
अनाधृष्या चाप्रतिधृष्या च ।
विश्वास-प्रस्तुतिः
अनाधृष्या तदग्निरप्रतिधृष्या तदादित्यः ।
Haug
“The unconquerable” is Agni, and “the not to be stopped” is Âditya (sun).
मूलम्
अनाधृष्या तदग्निरप्रतिधृष्या तदादित्यः ।
विश्वास-प्रस्तुतिः
अपूर्वा चाभ्रातृव्या च ।
Haug
(11 & 12) Who has no first (material) cause (apûrvâ), nor is liable to destruction.
मूलम्
अपूर्वा चाभ्रातृव्या च ।
विश्वास-प्रस्तुतिः
अपूर्वा तन्मनो ऽभ्रातृव्या तत्संवत्सरः ।
Haug
“Who has no first (material) cause” is the mind (manas) and “what is not liable to destruction” is the year."
मूलम्
अपूर्वा तन्मनो ऽभ्रातृव्या तत्संवत्सरः ।
विश्वास-प्रस्तुतिः
एता वाव द्वादश प्रजापतेस्तन्वः ।
Haug
These twelve bodies of Prajâpati make up the whole Prajâpati.
मूलम्
एता वाव द्वादश प्रजापतेस्तन्वः ।
विश्वास-प्रस्तुतिः
एष कृत्स्नः प्रजापतिस्तत्कृत्स्नं प्रजापतिमाप्नोति दशममहः ।
Haug
On the tenth day, one reaches the whole Prajâpati.
मूलम्
एष कृत्स्नः प्रजापतिस्तत्कृत्स्नं प्रजापतिमाप्नोति दशममहः ।
विश्वास-प्रस्तुतिः
अथ ब्रह्मोद्यं वदन्ति ।
Haug
They now repeat the Brahmodyam.[9]
Haug - Notes
[9]That is, what Brahmans ought to repeat. It begins with the words, Agnir gṛihapatiḥ, and ends with arâtsma. This Brahmodyam is no proper mantra, but a kind of Brâhmaṇam, or theological exposition. However, the whole is repeated by the Hotar as a mantra. See the whole of it also in the Aśv, Sr. S. 8, 13.
मूलम्
अथ ब्रह्मोद्यं वदन्ति ।
विश्वास-प्रस्तुतिः
अग्निर्गृहपतिरिति हैक आहुः सो ऽस्य लोकस्य गृहपतिः ।
Haug
“Agni is the house-father; thus say some, for he is the master (house-father) of the world (earth)”.
मूलम्
अग्निर्गृहपतिरिति हैक आहुः सो ऽस्य लोकस्य गृहपतिः ।
विश्वास-प्रस्तुतिः
वायुर्गृहपतिरिति हैक आहुः सो ऽन्तरिक्षलोकस्य गृहपतिः ।
Haug
“Vâyu is the house-father, thus say others; for he is the ruler of the airy region”.
मूलम्
वायुर्गृहपतिरिति हैक आहुः सो ऽन्तरिक्षलोकस्य गृहपतिः ।
विश्वास-प्रस्तुतिः
असौ वै गृहपतिर्यो ऽसौ तपत्येष पतिर्ऋतवो गृहाः ।
Haug
“That one (Âditya, the sun) is the house-father; for he burns (with his rays). The Ritus are the houses”.
मूलम्
असौ वै गृहपतिर्यो ऽसौ तपत्येष पतिर्ऋतवो गृहाः ।
विश्वास-प्रस्तुतिः
येषां वै गृहपतिं देवं विद्वान्गृहपतिर्भवति राध्नोति स गृहपती राध्नुवन्ति ते यजमानाः ।
Haug
“He who knows what god is their (the Ritu’s) house-father, becomes their house-father, and succeeds. Such sacrificers are successful (they become masters themselves).”
मूलम्
येषां वै गृहपतिं देवं विद्वान्गृहपतिर्भवति राध्नोति स गृहपती राध्नुवन्ति ते यजमानाः ।
विश्वास-प्रस्तुतिः
येषां वा अपहतपाप्मानं देवं विद्वान्गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हते ऽप ते यजमानाः पाप्मानं घ्नते ।
Haug
“House-father (master) becomes he who knows the god who destroys the evil consequences of sin (Âditya, the sun). This house-father destroys the evil consequences of sin and becomes (sole) master.”
मूलम्
येषां वा अपहतपाप्मानं देवं विद्वान्गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हते ऽप ते यजमानाः पाप्मानं घ्नते ।
विश्वास-प्रस्तुतिः
अध्वर्यो अरात्स्मारात्स्म ।
Haug
“These sacrificers destroy the evil consequences of their sin (and say), O Adhvaryu ! we have succeeded, we have succeeded.”
मूलम्
अध्वर्यो अरात्स्मारात्स्म ।