२४

विश्वास-प्रस्तुतिः

अथौदुम्बरीं समन्वारभन्ते ।

Haug

(When and How the Priests Break their Silence on the Tenth Day)

All touch now the branch of an Udumbara tree (which is at the sacrificial compound behind the seat of the Udgâtar) with their hands,

मूलम्

अथौदुम्बरीं समन्वारभन्ते ।

विश्वास-प्रस्तुतिः

इषमूर्जमन्वारभ इति ।

Haug

thinking “I touch food and juice;”

मूलम्

इषमूर्जमन्वारभ इति ।

विश्वास-प्रस्तुतिः

ऊर्ग्वा अन्नाद्यमुदुम्बरः ।

Haug

for the Udumbara tree represents juice[7] and food.

Haug - Notes

[7]The sap of the Udumbara tree is to be understood. It grew out of the food scattered by the gods on the earth.-Sây. compare 7, 32.

मूलम्

ऊर्ग्वा अन्नाद्यमुदुम्बरः ।

विश्वास-प्रस्तुतिः

यद्वैतद्देवा इषमूर्जं व्यभजन्त तत उदुम्बरः समभवत् ।

Haug

At the time that the gods distributed (for the earth) food and juice, the Udumbara trees grew up;

मूलम्

यद्वैतद्देवा इषमूर्जं व्यभजन्त तत उदुम्बरः समभवत् ।

विश्वास-प्रस्तुतिः

तस्मात्स त्रिः संवत्सरस्य पच्यते ।

Haug

therefore it brings forth every year three times ripe fruits.

मूलम्

तस्मात्स त्रिः संवत्सरस्य पच्यते ।

विश्वास-प्रस्तुतिः

तद्यदौदुम्बरीं समन्वारभन्त इषमेव तदूर्जमन्नाद्यं समन्वारभन्ते ।

Haug

If they take the Udumbara branches in their hands, they then take food and juice.

मूलम्

तद्यदौदुम्बरीं समन्वारभन्त इषमेव तदूर्जमन्नाद्यं समन्वारभन्ते ।

विश्वास-प्रस्तुतिः

वाचं यच्छन्ति ।

Haug

They suppress speech,

मूलम्

वाचं यच्छन्ति ।

विश्वास-प्रस्तुतिः

वाग्वै यज्ञो यज्ञमेव तद्यच्छन्ति ।

Haug

for the sacrifice is speech; in suppressing the speech they suppress the sacrifice.

मूलम्

वाग्वै यज्ञो यज्ञमेव तद्यच्छन्ति ।

विश्वास-प्रस्तुतिः

अहर्नियच्छन्ति ।

Haug

They suppress the day;

मूलम्

अहर्नियच्छन्ति ।

विश्वास-प्रस्तुतिः

अहर्वै स्वर्गो लोकः स्वर्गमेव तं लोकं नियच्छन्ति ।

Haug

for the day is the heaven-world, and (consequently) they subdue the heaven-world.

मूलम्

अहर्वै स्वर्गो लोकः स्वर्गमेव तं लोकं नियच्छन्ति ।

विश्वास-प्रस्तुतिः

न दिवा वाचं विसृजेरन् ।

Haug

No speech is allowed during the day;

मूलम्

न दिवा वाचं विसृजेरन् ।

विश्वास-प्रस्तुतिः

यद्दिवा वाचं विसृजेरन्नहर्भ्रातृव्याय परिशिंष्युः ।

Haug

if they would speak during the day, they would hand over the day to the enemy;

मूलम्

यद्दिवा वाचं विसृजेरन्नहर्भ्रातृव्याय परिशिंष्युः ।

विश्वास-प्रस्तुतिः

न नक्तं वाचं विसृजेरन्यन्नक्तं वाचं विसृजेरन्रात्रीं भ्रातृव्याय परिशिंष्युः ।

Haug

if they would speak during the night, they would hand over the night to the enemy.

मूलम्

न नक्तं वाचं विसृजेरन्यन्नक्तं वाचं विसृजेरन्रात्रीं भ्रातृव्याय परिशिंष्युः ।

विश्वास-प्रस्तुतिः

समयाविषितः सूर्यः स्यादथ वाचं विसृजेरंस्तावन्तमेव तद्द्विषते लोकं परिशिंषन्ति ।

Haug

Only at the time when the sun has half set, they should speak; for then they leave but this much space (as is between the conjunction of day and night) to the enemy.

मूलम्

समयाविषितः सूर्यः स्यादथ वाचं विसृजेरंस्तावन्तमेव तद्द्विषते लोकं परिशिंषन्ति ।

विश्वास-प्रस्तुतिः

अथो खल्वस्तमित एव वाचं विसृजेरन् ।

Haug

Or they should speak (only) after the sun has completely set.

मूलम्

अथो खल्वस्तमित एव वाचं विसृजेरन् ।

विश्वास-प्रस्तुतिः

तमोभाजमेव तद्द्विषन्तं भ्रातृव्यं कुर्वन्ति ।

Haug

By doing so, they make their enemy and adversary share in the darkness.

मूलम्

तमोभाजमेव तद्द्विषन्तं भ्रातृव्यं कुर्वन्ति ।

विश्वास-प्रस्तुतिः

आहवनीयं परीत्य वाचं विसृजेरन् ।

Haug

Walking round the Ahavanîya fire, they then speak;

मूलम्

आहवनीयं परीत्य वाचं विसृजेरन् ।

विश्वास-प्रस्तुतिः

यज्ञो वा आहवनीयः स्वर्गो लोक आहवनीयः ।

Haug

for the Ahavanîya fire is the sacrifice, and the heaven-world;

मूलम्

यज्ञो वा आहवनीयः स्वर्गो लोक आहवनीयः ।

विश्वास-प्रस्तुतिः

यज्ञेनैव तत्स्वर्गेण लोकेन स्वर्गं लोकं यन्ति ।

Haug

for by means of the sacrifice, which is the gate of the heaven-world, they go to the heaven-world.

मूलम्

यज्ञेनैव तत्स्वर्गेण लोकेन स्वर्गं लोकं यन्ति ।

विश्वास-प्रस्तुतिः

यदिहोनमकर्म यदत्यरीरिचाम प्रजापतिं तत्पितरमप्येत्विति वाचं विसृजन्ते ।

Haug

By the words, “if we have failed, by omission, or improper application, or by excess, of what is required, all that may go (be taken away) to (our) father, who is Prajâpati,” they recommence speaking.

मूलम्

यदिहोनमकर्म यदत्यरीरिचाम प्रजापतिं तत्पितरमप्येत्विति वाचं विसृजन्ते ।

विश्वास-प्रस्तुतिः

प्रजापतिं वै प्रजा अनु प्रजायन्ते ।

Haug

For all creatures are born after Prajâpati (he being their creator).

मूलम्

प्रजापतिं वै प्रजा अनु प्रजायन्ते ।

विश्वास-प्रस्तुतिः

प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा ।

Haug

Prajâpati, therefore, is the shelter from (the evil consequences of) what is deficient, or in excess (in his creatures);

मूलम्

प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा ।

विश्वास-प्रस्तुतिः

नैनानूनां नातिरिक्तं हिनस्ति ।

Haug

and thence these two faults do no harm to the sacrificers.

मूलम्

नैनानूनां नातिरिक्तं हिनस्ति ।

विश्वास-प्रस्तुतिः

प्रजापतिमेवोनातिरिक्तान्यभ्यत्यर्जन्ति य एवं विद्वांस एतेन वाचं विसृजन्ते ।

Haug

Therefore all that is deficient or in excess with them who have this knowledge, enters Prajâpati.

मूलम्

प्रजापतिमेवोनातिरिक्तान्यभ्यत्यर्जन्ति य एवं विद्वांस एतेन वाचं विसृजन्ते ।

विश्वास-प्रस्तुतिः

तस्मादेवं विद्वांस एतेनैव वाचं विसृजेरन् ।

Haug

Thence they should commence speaking by (repeating) this (mantra).

मूलम्

तस्मादेवं विद्वांस एतेनैव वाचं विसृजेरन् ।