२४

अथौदुम्बरीं समन्वारभन्त इषमूर्जमन्वारभ इत्यूर्ग्वा अन्नाद्यमुदुम्बरो यद्वै तद्देवा इषमूर्जं व्यभजन्त तत उदुम्बरः समभवत्तस्मात्स त्रिः संवत्सरस्य पच्यते तद्यदौदुम्बरीम्समन्वारभन्त इषमेव तदूर्जमन्नाद्यं समन्वारभन्ते वाचं यछन्ति वाग्वै यज्ञो यज्ञमेव तद्यछन्त्यहर्नियछन्त्यहर्वै स्वर्गो लोकः स्वर्गमेव तल्लोकं नियछन्ति न दिवा वाचं विसृजेरन्यद्दिवा वाचं विसृजेरन्नहर्भ्रातृव्याय परिशिंष्युर्न नक्तं वाचं विसृजेरन्यन्नक्तं वाचं विसृजेरन्रात्रीम्भ्रातृव्याय परिशिंष्युः समयाविषितः सूर्यः स्यादथ वाचं विसृजेरंस्तावन्तमेव तद्द्विषते लोकम्परिशिंषन्त्यथो खल्वस्तमित एव वाचं विसृजेरंस्तमोभाजमेव तद्द्वि-षन्तम्भ्रातृव्यं कुर्वन्त्याहवनीयम्परीत्य वाचं विसृजेरन्यज्ञो वा आहवनीयः स्वर्गो लोक आहवनीयो यज्ञेनैव तत्स्वर्गेण लोकेन स्वर्गं लोकं यन्ति यदिहोनमकर्म यदत्यरीरिचाम प्रजापतिं तत्पितरमप्येत्विति वाचं विसृजन्ते प्राजपतिं वै प्रजा अनुप्रजायन्ते प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा नैनानूनां नातिरिक्तं हिनस्ति प्रजापतिमेवोनातिरिक्तान्यभ्यत्यर्जन्ति य एवं विद्वांस एतेन

वाचं विसृजन्ते तस्मादेवं विद्वांस एतेनैव वाचं विसृजेरन् २४