२३

ते ततः सर्पन्ति ते सदः सम्प्रपद्यन्ते यथायथमन्य ऋत्विजो व्युत्सर्पन्ति संसर्पन्त्युद्गातारस्ते सर्पराज्ञ्या ऋक्षु स्तुवत इयं वै सर्पराज्ञीयं हि सर्पतो राज्ञीयं वा अलोमिकेवाग्र आसीत्सैतम्मन्त्रमपश्यदायं गौः पृश्निरक्रमीदिति ताम-यम्पृश्निर्वर्ण आविशन्नानारूपो यंयं काममकामयत यदिदं किंचौषधयो वन-स्पतयः सर्वाणि रूपाणि प्रिश्निरेनं वर्ण आविशति नानारूपो यंयं कामं कामयते य एवं वेद मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति वाचा शंसति वाक्च वै मनश्च देवानाम्मिथुनं देवानामेव तन्मिथुनेन मिथुनमवरुन्धते देवानाम्मिथुनेन मिथुनम्प्रजायन्ते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाथ चतुर्होतॄन्होता व्याचष्टे तदेव तत्स्तुतमनुशंसति देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होतारस्तद्यच्चतुर्होतॄन्होता व्याचष्टे देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं गमयति तदेनम्प्रकाशं गतम्प्रकाशङ्गमयति गछति प्रकाशं य एवं वेद यम्ब्राह्मणमनूचानं यशो नर्छेदिति ह स्माहारण्यम्परेत्य दर्भस्तम्बानुद्ग्रथ्य दक्षिणतो ब्रह्माणमुपवेश्य चतुर्होतॄन्व्याचक्षीत देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होतारस्तद्यच्चतुर्होतॄन्व्याचक्षीत देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं

गमयति तदेनम्प्रकाशं गतम्प्रकाशं गमयति गछति प्रकाशं य एवं वेद २३