विश्वास-प्रस्तुतिः
ते ततः सर्पन्ति ते सदः सम्प्रपद्यन्ते ।
Haug
(The Chanting and Repeating of the Serpent Mantra. The Chaturhotṛi Mantra. Its effect. Who Ought to Repeat it.)
All the other priests (except the Udgâtṛis) go from thence (the Agnidhrîya fire) and proceed to the Sadas (a place in the south-east of the Uttarâvedi)
मूलम्
ते ततः सर्पन्ति ते सदः सम्प्रपद्यन्ते ।
विश्वास-प्रस्तुतिः
यथायथमन्य ऋत्विजो व्युत्सर्पन्ति ।
Haug
all walking each in his own way, in this or that direction.
मूलम्
यथायथमन्य ऋत्विजो व्युत्सर्पन्ति ।
विश्वास-प्रस्तुतिः
संसर्पन्त्युद्गातारः ।
Haug
But the Udgâtṛis walk together.
मूलम्
संसर्पन्त्युद्गातारः ।
विश्वास-प्रस्तुतिः
ते सर्पराज्ञ्या ऋक्षु स्तुवते ।
Haug
They chant the verses (seen) by the Queen of the Serpents (Sarpa-râjñî);
मूलम्
ते सर्पराज्ञ्या ऋक्षु स्तुवते ।
विश्वास-प्रस्तुतिः
इयं वै सर्पराज्ञीयं हि सर्पतो राज्ञी ।
Haug
because the earth (iyam) is the Queen of the Serpents, for she is the queen of all that moves (sarpat).
मूलम्
इयं वै सर्पराज्ञीयं हि सर्पतो राज्ञी ।
विश्वास-प्रस्तुतिः
इयं वा अलोमिकेवाग्र आसीत् ।
Haug
She was in the beginning without hair, as it were (without trees, bushes, &c.)
मूलम्
इयं वा अलोमिकेवाग्र आसीत् ।
विश्वास-प्रस्तुतिः
सैतं मन्त्रमपश्यदा ऽयं गौः पृश्निरक्रमीदिति ।
Haug
She then saw this mantra, which commences, ayaṁ gâuḥ pṛiśnir akramît (10, 189).
मूलम्
सैतं मन्त्रमपश्यदा ऽयं गौः पृश्निरक्रमीदिति ।
विश्वास-प्रस्तुतिः
तामयं पृश्निर्वर्ण आविशन्नानारूपो यं यं काममकामयत ।
Haug
In consequence of it, she obtained a motley appearance, she became variegated (being able to produce) any form she might like
मूलम्
तामयं पृश्निर्वर्ण आविशन्नानारूपो यं यं काममकामयत ।
विश्वास-प्रस्तुतिः
यदिदं किंचौषधयो वनस्पतयः सर्वाणि रूपाणि ।
Haug
(such as) herbs, trees, and all (other) forms.
मूलम्
यदिदं किंचौषधयो वनस्पतयः सर्वाणि रूपाणि ।
विश्वास-प्रस्तुतिः
पृश्निरेनं वर्ण आविशति नानारूपो यं यं कामं कामयते य एवं वेद ।
Haug
Therefore the man who has such a knowledge obtains the faculty of assuming any form he might choose.
मूलम्
पृश्निरेनं वर्ण आविशति नानारूपो यं यं कामं कामयते य एवं वेद ।
विश्वास-प्रस्तुतिः
मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति वाचा शंसति ।
Haug
The three Udgâtris, Prastotar Udgâtar, and Pratihartar, repeat their respective parts in their mind (i. e. they do not utter words), but the Hotar repeats (aloud) with his voice;
मूलम्
मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति वाचा शंसति ।
विश्वास-प्रस्तुतिः
वाक्च वै मनश्च देवानां मिथुनम् ।
Haug
for Vâch (speech) and Manas (mind) are the cohabitation of the gods.
मूलम्
वाक्च वै मनश्च देवानां मिथुनम् ।
विश्वास-प्रस्तुतिः
देवानामेव तन्मिथुनेन मिथुनमवरुन्धते ।
Haug
By means of this cohabitation of the gods,
मूलम्
देवानामेव तन्मिथुनेन मिथुनमवरुन्धते ।
विश्वास-प्रस्तुतिः
देवानां मिथुनेन मिथुनं प्रजायन्ते प्रजात्यै ।
Haug
by means of the cohabitation of the gods, generation is produced for the sake of propagation.
मूलम्
देवानां मिथुनेन मिथुनं प्रजायन्ते प्रजात्यै ।
विश्वास-प्रस्तुतिः
प्रजायते प्रजया पशुभिर्य एवं वेद ।
Haug
He who has such a knowledge, obtains children and cattle.
मूलम्
प्रजायते प्रजया पशुभिर्य एवं वेद ।
विश्वास-प्रस्तुतिः
अथ चतुर्होतॄन्होता व्याचष्टे ।
Haug
The Hotar now sets forth the Chaturhotṛi mantras;[6]
Haug - Notes
[6]This is generally done before the singing of a mantra by the Udgâtar; but the Udgâtar not being allowed at this occasion to utter words, his office is taken by the Hotar.
मूलम्
अथ चतुर्होतॄन्होता व्याचष्टे ।
विश्वास-प्रस्तुतिः
तदेव तत्स्तुतमनुशंसति ।
Haug
he repeats them as the Śâstra accompanying the Stotram (the chanting of the verses just mentioned) by the Udgâtṛis.
मूलम्
तदेव तत्स्तुतमनुशंसति ।
विश्वास-प्रस्तुतिः
देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होतारः ।
Haug
The sacrificial name of the deities in the Chaturhotris was concealed.
मूलम्
देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होतारः ।
विश्वास-प्रस्तुतिः
तद्यच्चतुर्होतॄन्होता व्याचष्टे देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं गमयति ।
Haug
Therefore the Hotar now sets forth these names, and makes public the appropriate sacrificial name of the deities, and brings what has become public, to the public.
मूलम्
तद्यच्चतुर्होतॄन्होता व्याचष्टे देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं गमयति ।
विश्वास-प्रस्तुतिः
तदेनं प्रकाशं गतं प्रकाशं गमयति ।
Haug
He who has this knowledge, becomes public (i.e., celebrated).
मूलम्
तदेनं प्रकाशं गतं प्रकाशं गमयति ।
विश्वास-प्रस्तुतिः
गच्छति प्रकाशं य एवं वेद ।
Haug
He goes to the light, who knows thus.
मूलम्
गच्छति प्रकाशं य एवं वेद ।
विश्वास-प्रस्तुतिः
यं ब्राह्मणमनूचानं यशो नर्छंदिति ह स्मा ऽऽह ।
Haug
A Brahman who, after having completed his Vedic studies, should not attain to any fame,
मूलम्
यं ब्राह्मणमनूचानं यशो नर्छंदिति ह स्मा ऽऽह ।
विश्वास-प्रस्तुतिः
अरण्यं परेत्य दर्भस्तम्बानुद्ग्रथ्य दक्षिणतो ब्रह्माणमुपवेश्य चतुर्होतॄन्व्याचक्षीत ।
Haug
should go to a forest, string together the stalks of Dharba grass, with their ends standing upwards, and sitting on the right side of another Brahman, repeat with a loud voice, the Chaturhotṛi mantras.
मूलम्
अरण्यं परेत्य दर्भस्तम्बानुद्ग्रथ्य दक्षिणतो ब्रह्माणमुपवेश्य चतुर्होतॄन्व्याचक्षीत ।
विश्वास-प्रस्तुतिः
देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होतारः ।
Haug
The sacrificial name of the deities in the Chaturhotṛis was concealed.
मूलम्
देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होतारः ।
विश्वास-प्रस्तुतिः
तद्यच्चतुर्होतॄन्व्याचक्षीत देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं गमयति ।
Haug
Therefore, when he recites the Chaturhotṛis, he makes public the sacred, secret name of the gods.
मूलम्
तद्यच्चतुर्होतॄन्व्याचक्षीत देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं गमयति ।
विश्वास-प्रस्तुतिः
तदेनं प्रकाशं गतं प्रकाशं गमयति ।
Haug
He brings to light what has become light.
मूलम्
तदेनं प्रकाशं गतं प्रकाशं गमयति ।
विश्वास-प्रस्तुतिः
गच्छति प्रकाशं य एवं वेद ।
Haug
He who knows this attains fame.
मूलम्
गच्छति प्रकाशं य एवं वेद ।