विश्वास-प्रस्तुतिः
पृष्ठ्यं षळहमुपयन्ति ।
Haug
(To What the Different Parts of the Dvâdaśâha are to be likened. The Tenth Day.)
The six Pṛiṣṭha days (the six first in the Dvâdaśâha) represent the mouth;
मूलम्
पृष्ठ्यं षळहमुपयन्ति ।
विश्वास-प्रस्तुतिः
यथा वै मुखमेवं पृष्ठ्यः षळहः ।
Haug
just as the mouth, so is the Pṛiṣṭha six-day period.
मूलम्
यथा वै मुखमेवं पृष्ठ्यः षळहः ।
विश्वास-प्रस्तुतिः
तद्यथा ऽन्तरं मुखस्य जिह्वा तालु दन्ता एवं छन्दोमा ।
Haug
the Chandomâh days, from the seventh to the ninth, are then what is in the mouth, as tongue, palate, and teeth;
मूलम्
तद्यथा ऽन्तरं मुखस्य जिह्वा तालु दन्ता एवं छन्दोमा ।
विश्वास-प्रस्तुतिः
अथ येनैव वाचं व्याकरोति येन स्वादु चास्वादु च विजानाति तद्दशममहः ।
Haug
but that by which one produces articulate sounds of speech, or by which one distinguishes the sweet and not sweet, this is the tenth day.
मूलम्
अथ येनैव वाचं व्याकरोति येन स्वादु चास्वादु च विजानाति तद्दशममहः ।
विश्वास-प्रस्तुतिः
यथा वै नासिके एवं पृष्ठ्यः षळहः ।
Haug
Or the six Pṛiṣṭha days are comparable to the nostrils,
मूलम्
यथा वै नासिके एवं पृष्ठ्यः षळहः ।
विश्वास-प्रस्तुतिः
तद्यथा ऽन्तरं नासिकयोरेवं छन्दोमाः ।
Haug
and what is between them, to the Chandomâh days;
मूलम्
तद्यथा ऽन्तरं नासिकयोरेवं छन्दोमाः ।
विश्वास-प्रस्तुतिः
अथ येनैव गन्धान्विजानाति तद्दशममहः ।
Haug
but that by which one discerns the different smells, this is the tenth day.
मूलम्
अथ येनैव गन्धान्विजानाति तद्दशममहः ।
विश्वास-प्रस्तुतिः
यथा वा अक्ष्येवं पृष्ठ्यः षळहः ।
Haug
Or the six Pṛiṣṭha days are comparable to the eye;
मूलम्
यथा वा अक्ष्येवं पृष्ठ्यः षळहः ।
विश्वास-प्रस्तुतिः
तद्यथा ऽन्तरमक्ष्णः कृष्णमेवं छन्दोमाः ।
Haug
the Chandomâh are then the black in the eye,
मूलम्
तद्यथा ऽन्तरमक्ष्णः कृष्णमेवं छन्दोमाः ।
विश्वास-प्रस्तुतिः
अथ यैव कनीनिका येन पश्यति तद्दशममहः ।
Haug
and the tenth day then is the pupil of the eye, by which one sees.
मूलम्
अथ यैव कनीनिका येन पश्यति तद्दशममहः ।
विश्वास-प्रस्तुतिः
यथा वै कर्ण एवं पृष्ठ्यः षळहः ।
Haug
Or the six Pṛiṣṭha days are comparable to the ear;
मूलम्
यथा वै कर्ण एवं पृष्ठ्यः षळहः ।
विश्वास-प्रस्तुतिः
तद्यथा ऽन्तरं कर्णस्यैवं छन्दोमाः ।
Haug
while the Chandomâh represent what is in the ear;
मूलम्
तद्यथा ऽन्तरं कर्णस्यैवं छन्दोमाः ।
विश्वास-प्रस्तुतिः
अथ येनैव शृणोति तद्दशममहः ।
Haug
but by what one hears, that is the tenth day.
मूलम्
अथ येनैव शृणोति तद्दशममहः ।
विश्वास-प्रस्तुतिः
श्रीर्वै दशममहः ।
Haug
The tenth day is happiness;
मूलम्
श्रीर्वै दशममहः ।
विश्वास-प्रस्तुतिः
श्रियं वा एत आगच्छन्ति ये दशममहरागच्छन्ति ।
Haug
those who enter on the tenth day, enter on happiness,
मूलम्
श्रियं वा एत आगच्छन्ति ये दशममहरागच्छन्ति ।
विश्वास-प्रस्तुतिः
तस्माद्दशममहरविवाक्यं भवति ।
Haug
therefore silence must be kept during the tenth day;
मूलम्
तस्माद्दशममहरविवाक्यं भवति ।
विश्वास-प्रस्तुतिः
मा श्रियो ऽववादिष्मेति ।
Haug
for “we shall not bespeak the (goddess of) fortune,”[2]
Haug - Notes
[2]This is a very common superstition spread in Europe; not to speak, for instance, on finding some treasure in the earth. Sây, explains avavaa by “to blame;” but this is not required, and is not good sense.
मूलम्
मा श्रियो ऽववादिष्मेति ।
विश्वास-प्रस्तुतिः
दुरववदं हि श्रेयसः ।
Haug
because a happy thing is not to be spoken to.
मूलम्
दुरववदं हि श्रेयसः ।
विश्वास-प्रस्तुतिः
ते ततः सर्पन्ति ते मार्जयन्ते ते पत्नीशालां सम्प्रपद्यन्ते ।
Haug
Now the priests walk, clean themselves, and proceed to the place of the sacrificer’s wife (patnîśâlâ).[3]
Haug - Notes
[3]To make Homa.
मूलम्
ते ततः सर्पन्ति ते मार्जयन्ते ते पत्नीशालां सम्प्रपद्यन्ते ।
विश्वास-प्रस्तुतिः
तेषां य एतामाहुतिं विद्यात्स ब्रूयात्समन्वारभध्वमिति स जुहुयात् इह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्ने ऽवाट्स्वाहा ऽवाळिति ।
Haug
That one of the priests, who should know this invocation offering (âhuti), shall say : “Hold one another;” then he shall offer the oblation by repeating the mantra, “here be thou happy, here be ye happy, here may be a hold, here may be a hold for all that is yours;[4] may Agni carry it (the sacrifice) up ! Svâhâ ![5] may he take it up !”
Haug - Notes
[4]All that you have, all your possessions may be upheld and remain in the same prosperous state.
[5]The formula Svâhâ is personified, and taken as a deity.
मूलम्
तेषां य एतामाहुतिं विद्यात्स ब्रूयात्समन्वारभध्वमिति स जुहुयात् इह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्ने ऽवाट्स्वाहा ऽवाळिति ।
विश्वास-प्रस्तुतिः
स यदिह रमेत्याहास्मिन्नेवैनांस्तल्लोके रमयति ।
Haug
When he says, “be happy here,” then he makes happy (joyful) all those (sacrificers) who are in this world.
मूलम्
स यदिह रमेत्याहास्मिन्नेवैनांस्तल्लोके रमयति ।
विश्वास-प्रस्तुतिः
इह रमध्वमिति यदाह प्रजामेवैषु तद्रमयति ।
Haug
When he says, “enjoy yourselves,” then he makes joyful their offspring in these worlds.
मूलम्
इह रमध्वमिति यदाह प्रजामेवैषु तद्रमयति ।
विश्वास-प्रस्तुतिः
इह धृतिरिह स्वधृतिरिति यदाह प्रजां चैव तद्वाचं च यजमानेषु दधाति ।
Haug
When he says, “here may be a hold, a hold for all that is yours,” then he provides the sacrificers with children, and speech (the power of speech).
मूलम्
इह धृतिरिह स्वधृतिरिति यदाह प्रजां चैव तद्वाचं च यजमानेषु दधाति ।
विश्वास-प्रस्तुतिः
अग्ने ऽवाळिति रथंतरं स्वाहा ऽवाळिति बृहत् ।
Haug
By the words “may Agni carry it up” (vâṭ), the Rathantaram Sâman is to be understood, and by “Svâhâ ! may he carry it up !” the Brihat Sâman is meant.
मूलम्
अग्ने ऽवाळिति रथंतरं स्वाहा ऽवाळिति बृहत् ।
विश्वास-प्रस्तुतिः
देवानां वा एतन्मिथुनं यद्बृहद्रथंतरे ।
Haug
For the Rathantaram and Bṛihat Sâman are the cohabitation of the gods;
मूलम्
देवानां वा एतन्मिथुनं यद्बृहद्रथंतरे ।
विश्वास-प्रस्तुतिः
देवानामेव तन्मिथुनेन मिथुनमवरुन्धते ।
Haug
by means of this cohabitation of the gods one obtains generation;
मूलम्
देवानामेव तन्मिथुनेन मिथुनमवरुन्धते ।
विश्वास-प्रस्तुतिः
देवानां मिथुनेन मिथुनं प्रजायन्ते प्रजात्यै ।
Haug
by means of this cohabitation of the gods generation is produced. (This is done) for production.
मूलम्
देवानां मिथुनेन मिथुनं प्रजायन्ते प्रजात्यै ।
विश्वास-प्रस्तुतिः
प्रजायते प्रजया पशुभिर्य एवं वेद ।
Haug
He who has this knowledge, obtains children and cattle.
मूलम्
प्रजायते प्रजया पशुभिर्य एवं वेद ।
विश्वास-प्रस्तुतिः
ते ततः सर्पन्ति ते मार्जयन्ते त आग्नीध्रं सम्प्रपद्यन्ते ।
Haug
Now they all go and make ablution and proceed to the place of the Agnîdhra.
मूलम्
ते ततः सर्पन्ति ते मार्जयन्ते त आग्नीध्रं सम्प्रपद्यन्ते ।
विश्वास-प्रस्तुतिः
तेषां य एतामाहुतिं विद्यात्स ब्रूयत्समन्वारभध्वमिति स जुहुयात् उपसृजन्धरुणं मातरं धरुणो धयन् रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति ।
Haug
That one who knows the invocation offering (âhuti) shall say “hold now one another,” then he should bring the offering and recite, “he who produced besides us this ground (our) mother, he, the preserver who feeds (us), may preserve in us wealth, vigour, health, and strength, Svâhâ !”
मूलम्
तेषां य एतामाहुतिं विद्यात्स ब्रूयत्समन्वारभध्वमिति स जुहुयात् उपसृजन्धरुणं मातरं धरुणो धयन् रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति ।
विश्वास-प्रस्तुतिः
रायस्पोषमिषमूर्जमवरुन्ध आत्मने च यजमानेभ्यश्च यत्रैवं विद्वानेतामाहुतिं जुहोति ।
Haug
Who knowing this, recites this formula, gains for himself as well as for the sacrificers, wealth, vigour, health, and strength.
मूलम्
रायस्पोषमिषमूर्जमवरुन्ध आत्मने च यजमानेभ्यश्च यत्रैवं विद्वानेतामाहुतिं जुहोति ।