पृष्ठ्यं षळहमुपयन्ति यथा वै मुखमेवम्पृष्ठ्यः षळहस्तद्यथान्तरम्मुखस्य जिह्वा तालु दन्ता एवं छन्दोमा अथ येनैव वाचं व्याकरोति येन स्वादु चास्वादु च विजानाति तद्दशममहर्यथा वै नासिके एवम्पृष्ठ्यः षळहस्तद्यथान्तरम्ना-सिकयोरेवं छन्दोमा अथ येनैव गन्धान्विजानाति तद्दशममहर्यथा वा अक्ष्येवम्पृष्ठ्यः षळहस्तद्यथान्तरमक्ष्णः कृष्णमेवं छन्दोमा अथ यैव कनीनिका येन पश्यति तद्दशममहर्यथा वै कर्ण एवम्पृष्ठ्यः षळहस्तद्यथान्तरं कर्णस्यैवं छन्दोमा अथ येनैव शृणोति तद्दशममहः श्रीर्वै दशममहः श्रियं वा एत आगछन्ति ये दशममहरागछन्ति तस्माद्दशममहरविवाक्यम्भवति मा श्रियो-ऽववादिष्मेति दुरववदं हि श्रेयसस्ते ततः सर्पन्ति ते मार्जयन्ते ते पत्नीशालां सम्प्रपद्यन्ते तेषां य एतामाहुतिं विद्यात्स ब्रूयात्समन्वारभध्वमिति स जुहु-यादिह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्ने वाट्स्वाहा वाळ् इति स यदिह रमेत्याहास्मिन्नेवैनांस्तल्लोके रमयतीह रमध्वमिति यदाह प्रजामेवैषु तद्र म-यतीह धृतिरिह स्वधृतिरिति यदाह प्रजां चैव तद्वाचं च यजमानेषु दधात्यग्ने वाळिति रथंतरम्स्वाहा वाळ् इति बृहद्देवानां वा एतन्मिथुनं यद्बृहद्र थंतरे देवानामेव तन्मिथुनेन मिथुनमवरुन्धते देवानाम्मिथुनेन मिथुनम्प्रजायन्ते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ते ततः सर्पन्ति ते मार्जयन्ते त आग्नीध्रं सम्प्रपद्यन्ते तेषां य एतामाहुतिं विद्यात्स ब्रूयत्समन्वारभध्वमिति स जुहुया-दुपसृजन्धरुणम्मातरं धरुणो धयन्रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति रायस्पोषमिषमूर्जमवरुन्द्ध आत्मने च यजमानेभ्यश्च यत्रैवं विद्वानेतामाहुतिं
जुहोति २२