विश्वास-प्रस्तुतिः
सं च त्वे जग्मुर्गिर इन्द्र पूर्वीरिति सूक्तं गतवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
(The Remainder of the Niṣkevalya Śastra. The Śastras of the Evening Libation.)
There are five other pair-hymns enumerated, the four first are in the Triṣṭubh, the fifth in the Jagatî metre. These are, saṁ cha tve jagmur (6, 34), which contains the word “gone;”
मूलम्
सं च त्वे जग्मुर्गिर इन्द्र पूर्वीरिति सूक्तं गतवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
कदा भुवन्रथक्षयाणि ब्रह्मेति सूक्तं क्षेतिवदन्तरूपम्
Haug
kadâ bhuvan (6, 35) which contains the word “kṣi” to reside, (in kṣayaṇi), which is an antarûpa,
मूलम्
कदा भुवन्रथक्षयाणि ब्रह्मेति सूक्तं क्षेतिवदन्तरूपम्
विश्वास-प्रस्तुतिः
क्षेतीव वा अन्तं गत्वा नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
“he resides as it were, gone to an end (having gained his object),”
मूलम्
क्षेतीव वा अन्तं गत्वा नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
आ सत्यो यातु मघवाँ ऋजीषीति सूक्तं सत्यवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
â satyo yâtu (4, 16) which contains satya truth,
मूलम्
आ सत्यो यातु मघवाँ ऋजीषीति सूक्तं सत्यवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तत्त इन्द्रियं परमं पराचैरिति सूक्तमन्तो वै परममन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
tat ta indṛiyam paramam (1, 103), which contains an anta in the word “paramaṁ,” i. e., highest.
मूलम्
तत्त इन्द्रियं परमं पराचैरिति सूक्तमन्तो वै परममन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु त्रैष्टुभम् ।
Haug
The four first are in the Trishṭubh.
मूलम्
तदु त्रैष्टुभम् ।
विश्वास-प्रस्तुतिः
तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
Haug
by its firm-footed metre he supports the libation, so that it does not fall from its place.
मूलम्
तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
विश्वास-प्रस्तुतिः
अहं भुवं वसुनः पूर्व्यस्पतिरिति सूक्तमहं धनानि संजयामि शश्वत इत्यन्तो वै जितमन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
Aham bhuvaṁ (10, 48, 1), which contains an anta in jayâmi, I conquer.[1]
Haug - Notes
[1] For the sentences here omitted in the translation (they are only repetitions) see 5, 19.
मूलम्
अहं भुवं वसुनः पूर्व्यस्पतिरिति सूक्तमहं धनानि संजयामि शश्वत इत्यन्तो वै जितमन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु जागतम् ।
Haug
The fifth is in the Jagatî metre.
मूलम्
तदु जागतम् ।
विश्वास-प्रस्तुतिः
जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।
Haug
The Jagatis are the bearers of the midday libation of this three-day period.
मूलम्
जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।
विश्वास-प्रस्तुतिः
तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते ।
Haug
That metre bears (the libation) in which the Nivid is inserted.
मूलम्
तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते ।
विश्वास-प्रस्तुतिः
तस्माज्जगतीषु निविदं दधाति ।
Haug
Therefore, the Nivid is placed in the Jagatis.
मूलम्
तस्माज्जगतीषु निविदं दधाति ।
विश्वास-प्रस्तुतिः
मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च ।
Haug
Coupled hymns are recited, both Triṣṭubh and Jagatî.
मूलम्
मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च ।
विश्वास-प्रस्तुतिः
मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
Haug
Cattle are a pair, the Chandomâs are cattle, for the sake of obtaining cattle.
मूलम्
मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
विश्वास-प्रस्तुतिः
पञ्च पञ्च सूक्तानि शस्यन्ते ।
Haug
Twice five hymns are recited.
मूलम्
पञ्च पञ्च सूक्तानि शस्यन्ते ।
विश्वास-प्रस्तुतिः
पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
Haug
Paṅkti has five feet, the sacrifice is fivefold, cattle are fivefold, the Chandomâs are cattle, for the sake of obtaining cattle.
मूलम्
पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
विश्वास-प्रस्तुतिः
तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश सम्पद्यन्ते ।
Haug
Twice five makes ten.
मूलम्
तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश सम्पद्यन्ते ।
विश्वास-प्रस्तुतिः
सा दशिनी विराळन्नं विराट् ।
Haug
That decade is Virat, and Virat is food.
मूलम्
सा दशिनी विराळन्नं विराट् ।
विश्वास-प्रस्तुतिः
अन्नं पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
Haug
Food is cattle, the Chandomâs are cattle, for the sake of obtaining cattle.
मूलम्
अन्नं पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
विश्वास-प्रस्तुतिः
तत्सवितुर्वृणीमहे ऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरे ऽहनि नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
The commencement and sequel of the Vaiśvadeva Śāstra is, tat Savitur vṛiṇīmahe, and adyâ no deva Savitar, on the Rathantara day, the ninth day, as the form of the ninth day.
मूलम्
तत्सवितुर्वृणीमहे ऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरे ऽहनि नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
दोषो आगादिति सावित्रमन्तो वै गतमन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
The (Nivid) hymn for Savitar is doṣo âgât (?). The end is the past, the end is the ninth day, the form of the ninth day.
मूलम्
दोषो आगादिति सावित्रमन्तो वै गतमन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
प्र वां महि द्यवी अभीति द्यावापृथिवीयं शुची उप प्रशस्तय इति शुचिवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
pravâm mahi dyavî abhî (4, 56, 5-7). The (Nivid) hymn for Dyâvâpṛithivî, “śucī upa praśastaye” (splendid for praise), thus has “śucivat”, the characteristic of the ninth day.
मूलम्
प्र वां महि द्यवी अभीति द्यावापृथिवीयं शुची उप प्रशस्तय इति शुचिवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
इन्द्र इषे ददातु नस्ते नो रत्नानि धत्तनेत्यार्भवं त्रिरा साप्तानि सुन्वत इति त्रिवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
Indra iṣe dadâtu naḥ (8, 82, 34), te no ratnâni (1, 20, 7-8) form the (Nivid) hymn for the Ribhus, the words trir â saptâni (1, 20, 7) contain the characteristic “three,” the characteristic of the ninth day.
मूलम्
इन्द्र इषे ददातु नस्ते नो रत्नानि धत्तनेत्यार्भवं त्रिरा साप्तानि सुन्वत इति त्रिवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
बभ्रुरेको विषुणः सूनरो युवेति द्विपदाः शंसति ।
Haug
Babhṛur eko viṣuṇaḥ (8, 29) is the Dvipadâ.
मूलम्
बभ्रुरेको विषुणः सूनरो युवेति द्विपदाः शंसति ।
विश्वास-प्रस्तुतिः
द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
Haug
By repeating a Dvipâd, the Hotar puts the two-legged sacrificer among the four-legged animals.
मूलम्
द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
विश्वास-प्रस्तुतिः
तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ।
Haug
Because he recites the Dvipadâs, he thus establishes the two-footed sacrificer firmly among the four-footed cattle.
मूलम्
तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ।
विश्वास-प्रस्तुतिः
ये त्रिंशति त्रयस्पर इति वैश्वदेवं त्रिवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
Ye triṁsati trayas para (8, 28) is the (Nivid) hymn for the viśvedevâḥ, because it contains the term “three.”
मूलम्
ये त्रिंशति त्रयस्पर इति वैश्वदेवं त्रिवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ।
Haug
These are in the Gâyatrî metre; the third pressing of this three-day period is Gâyatrî.
मूलम्
तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ।
विश्वास-प्रस्तुतिः
वैश्वानरो न ऊतय इत्याग्निमारुतस्य प्रतिपदा प्रयातु परावत इत्यन्तो वै परावतो ऽन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
Vaiśvânaro na ûtaye (Aśv Sr. S. 8, 11) is the Pratipad of the Agnimâruta Śâstra; it contains the term parâvataḥ, which is an anta.
मूलम्
वैश्वानरो न ऊतय इत्याग्निमारुतस्य प्रतिपदा प्रयातु परावत इत्यन्तो वै परावतो ऽन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
मरुतो यस्य हि क्षय इति मारुतं क्षेतिवदन्तरूपम् ।
Haug
Maruto yasya hi kṣaya (1, 86) is the (Nivid) hymn for the Marutas. It contains the term kṣi, to reside, which is an antarûpam;
मूलम्
मरुतो यस्य हि क्षय इति मारुतं क्षेतिवदन्तरूपम् ।
विश्वास-प्रस्तुतिः
क्षेतीव वा अन्तं गत्वा नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
for one resides, as it were, after having gone to a (certain) object.
मूलम्
क्षेतीव वा अन्तं गत्वा नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।
Haug
Jātavedase sunavāma somam is the invariable Jātavedas verse.
मूलम्
जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।
विश्वास-प्रस्तुतिः
प्राग्नये वाचमीरयेति जातवेदस्यं समानोदर्कं नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
The (Nivid) hymn for Jâtavedâs is, prâgnaye vâcham îraya (10, 187) (each verse of which ends with) sa naḥ pârṣad ati dviṣaḥ, i. e., may he (Agni) overcome our enemies, and bring (safely our ceremonies) to a conclusion. He repeats this refrain twice.
मूलम्
प्राग्नये वाचमीरयेति जातवेदस्यं समानोदर्कं नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
स नः पर्षदति द्विषः स नः पर्षदति द्विष इति शंसति ।
Haug
He recites “sa naḥ parṣad ati dviṣaḥ, sa naḥ parṣad ati dviṣaḥ”.
मूलम्
स नः पर्षदति द्विषः स नः पर्षदति द्विष इति शंसति ।
विश्वास-प्रस्तुतिः
बहु वा एतस्मिन्नवरात्रे किंच किंच वारणं क्रियते शान्त्या एव तद्यत्स नः पर्षदति द्विषः स नः पर्षदति द्विष इति शंसति सर्वस्मादेवैनांस्तदेनसः प्रमुञ्चति ।
Haug
For in this Navarâtra sacrifice (which is lasting for nine days), there are so many ceremonies, that the committal of a mistake is unavoidable. In order to make good (any such mistake, the pâda mentioned must be repeated twice). By doing so, the Hotar makes them (the priests and sacrificers) free from all guilt.
मूलम्
बहु वा एतस्मिन्नवरात्रे किंच किंच वारणं क्रियते शान्त्या एव तद्यत्स नः पर्षदति द्विषः स नः पर्षदति द्विष इति शंसति सर्वस्मादेवैनांस्तदेनसः प्रमुञ्चति ।
विश्वास-प्रस्तुतिः
तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ।
Haug
These verses are in the Gâyatrî metre; for the Gâyatrî is the (leading) metre at the evening libation during the three (last) days.
मूलम्
तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ।