सं च त्वे जग्मुर्गिर इन्द्र पूर्वीरिति सूक्तं गतवन्नवमेऽहनि नवमस्याह्नो रूपं कदा भुवन्रथक्षयाणि ब्रह्मेटि सूक्तं क्षेतिवदन्तरूपं क्षेतीव वा अन्तं गत्वा नवमेऽहनि नवमस्याह्नो रूपमा सत्यो यातु मघवाँ ऋजीषीति सूक्तं सत्यवन्नवमेऽहनि नवमस्याह्नो रूपन्तत्त इन्द्रि यम्परमम्पराचैरिति सूक्तमन्तो वै परममन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभन्तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवतेऽहम्भुवं वसुनः पूर्व्यस्पतिरिति सूक्तमहं धनानि सं जयामि शश्वत इत्यन्तो वै जितमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै वच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै पञ्चपञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश सम्पद्यन्ते सा दशिनी विराळ् अन्नम्विराळ् अन्नम्पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रति-पदनुचरौ राथंतरेऽहनि नवमेऽहनि नवमस्याह्नो रूपं दोषो आगादिति सावित्रं अन्तो वै गतमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपम्प्र वाम्महिद्यवी अभीति द्यावापृथिवीयं शुची उप प्रशस्तय इति शुचिवन्नवमेऽहनि नवमस्याह्नो रूपमिन्द्र इषे ददातु नस्ते नो रत्नानि धत्तनेत्यार्भवं त्रिरा साप्तानि सुन्वत इति त्रिवन्नवमेऽहनि नवमस्याह्नो रूपाम्बभ्रुरेको विषुणः सूनरो युवेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाह् पशूनामवरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ये त्रिंशति त्रयस्पर इति वैश्वदेवं त्रिवन्नवमेऽहनि नवमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहो वैश्वानरो न ऊतय इत्याग्निमारुतस्य प्रतिपदा प्र यतु परावत इत्यन्तो वै परावतोऽन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपम्मरुतो यस्य हि क्षय इति मारुतं क्षेतिवदन्तरूपं क्षेतीव वा अन्तं गत्वा नवमेऽहनि नवमस्याह्नो रूपं जतवेदसे सुनवाम सोममिति जातवेदस्याच्युता प्राग्नये वाचमीरयेति जातवेदस्यं समानोदर्कं नवमेऽनवमस्याह्नो रूपं स नः पर्षदति द्विषः स नः पर्षदति द्विष इति संसह् बहु वा एतस्मिन्नवरात्रे किंच-किंच वारणं क्रियते शान्त्या एव तद्यत्स नः पर्षदति द्विषः स नः पर्षदति द्विष इति शंसति सर्वस्मादेवैनांस्तदेनसः प्रमुञ्चति
तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः २१