यद्वै समानोदर्कं तन्नवमस्याह्नो रूपं यद्ध्येव तृतीह्यमहस्तदेवैतत्पुनर्यौ नवमं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्र तवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोकोऽभ्युदितो यच्छुचिवद्यत्सत्यवद्य-त्क्षेतिवद्यद्गतवद्यदोकवद्यत्कृतं यत्तृतीयस्याह्नो रूपमेतानि वै नवमस्याह्नो रूपाण्यगन्म महा नमसा यविष्ठमिति नवमस्याह्न आज्यम्भवति गतव-न्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्! यहः प्र वीरया शुचयो दद्रि रे ते ते सत्येन मनसा दीध्याना दिवि क्षयन्ता रजसः पृथिव्यामा विश्ववाराश्विना गतं नोऽयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्त आ नो दिवो बृहतः पर्वतादा सरस्वत्यभि नो नेषि वस्य इति प्रउगं शुचिवत्सत्यवत्क्षेतिवद्गतवदोकवन्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्! यहस्तंतमिद्रा धसे महे त्रय इन्द्र स्य सोमा इन्द्र नेदीय एदिहि प्र नूनम्ब्रह्मणस्पतिरग्निर्नेता त्वं सोमा क्रतुभिः पिन्वन्त्यपो नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानो नवमेऽहनि नवमस्याह्नो रूपमिन्द्रः स्वाहा पिबतु यस्य सोम इति सूक्तमन्तो वै स्वाहा-कारोऽन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं गायत्साम नभन्यं यथा वेरिति सूक्तमर्चाम तद्वावृधानं स्वर्वदित्यन्तो वै स्वरन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तिष्ठा हरी रथ आ युज्यमानेति सूक्तमन्तो वै स्थितमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपमिमा उ त्वा पुरुतमस्य कारोरिति सूक्तं धियो रथेष्ठामित्यन्तो वै स्थितमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते प्र मन्दिने पितुमदर्चता वच इति सूक्तम्समानोदर्कं नवमेऽहनि नवमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निव्ल्द्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि सस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै पञ्चा सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठम्भवति नवमेऽहनि यद्वावानेति धाय्याच्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेनेन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवान्नवमेऽहनि नवमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति
तार्क्ष्योऽच्युतः २०