विश्वास-प्रस्तुतिः
यद्वै समानोदर्कं तन्नवमस्याह्नो रूपम् ।
Haug
(The Ninth and Tenth Days of the Dvâdaśâha. Conclusion of this Sacrifice.)
(The Characteristics of the Ninth Day. The Śastras of the Morning and Midday Libations.)
What has the same refrain, is a characteristic of the ninth day.
मूलम्
यद्वै समानोदर्कं तन्नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
यद्ध्येव तृतीयमहस्तदेवैतत्पुनर्यन्नवमं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोको ऽभ्युदितः यच्छुचिवद्यत्सत्यवद्यत्क्षेतिवद्यद्गतवद्यदोकवत् यत्कृतं यत्तृतीयस्याह्नो रूपमेतानि वै नवमस्याह्नो रूपाणि ।
Haug
This day has the same characteristics as the third, viz., aśva, anta, punarâvṛittam, punarnirnṛittam, rata, paryasta, the number three, antarûpa, the mentioning of the deity in the last pada, an allusion to that world, śuchi splendour, satya truth, kṣeti to reside, gata gone, oka house, the past tense. It is the characteristic of the ninth day.
मूलम्
यद्ध्येव तृतीयमहस्तदेवैतत्पुनर्यन्नवमं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोको ऽभ्युदितः यच्छुचिवद्यत्सत्यवद्यत्क्षेतिवद्यद्गतवद्यदोकवत् यत्कृतं यत्तृतीयस्याह्नो रूपमेतानि वै नवमस्याह्नो रूपाणि ।
विश्वास-प्रस्तुतिः
अगन्म महा नमसा यविष्ठमिति नवमस्याह्न आज्यं भवति गतवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
Aganma mahâ namaśâ (7,12, 1) is the Ajya hymn of the ninth day, because it contains the word “gone” (in aganma, we went) which is the characteristic of the ninth day.
मूलम्
अगन्म महा नमसा यविष्ठमिति नवमस्याह्न आज्यं भवति गतवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः ।
Haug
it is in the Triṣṭubh metre, which is the (leading) metre at the morning libation, during the three (last) days.
मूलम्
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः ।
विश्वास-प्रस्तुतिः
प्र वीरया शुचयो दद्रिरे ।
Haug
The Pra-uga Śāstra consists of the following verses : pra vîryâ (7, 90, 1),
मूलम्
प्र वीरया शुचयो दद्रिरे ते ।
विश्वास-प्रस्तुतिः
ते ते सत्येन मनसा दीध्याना दिवि क्षयन्ता रजसः पृथिव्याम् ।
Haug
te te satyena manasâ (7, 90, 5), divi kṣayanta (7, 64, 1),
मूलम्
ते ते सत्येन मनसा दीध्याना दिवि क्षयन्ता रजसः पृथिव्याम् ।
विश्वास-प्रस्तुतिः
आ विश्ववारा ऽश्विना गतं नः ।
Haug
â viśva vârâ (7, 70, 1-3),
मूलम्
आ विश्ववारा ऽश्विना गतं नः ।
विश्वास-प्रस्तुतिः
अयं सोम इन्द्र तुभ्यं सुन्व ।
Haug
ayam soma indra tubhyam sunva (7, 29, 1-3),
मूलम्
अयं सोम इन्द्र तुभ्यं सुन्व ।
विश्वास-प्रस्तुतिः
आ तु प्र ब्रह्माणो अङ्गिरसो नक्षन्त ।
Haug
pra Brâhmaṇo (7, 42, 1-3),
मूलम्
आ तु प्र ब्रह्माणो अङ्गिरसो नक्षन्त ।
विश्वास-प्रस्तुतिः
सरस्वतीं देवयन्तो हवन्त ।
Haug
Sarasvatîm devayanto (10, 17, 7-9),
मूलम्
सरस्वतीं देवयन्तो हवन्त ।
विश्वास-प्रस्तुतिः
आ नो दिवो बृहतः पर्वतादा ।
Haug
â no divo bṛihataḥ (5, 43, 11-13),
मूलम्
आ नो दिवो बृहतः पर्वतादा ।
विश्वास-प्रस्तुतिः
सरस्वत्यभि नो नेषि वस्य इति प्रउगं शुचिवत्सत्यवत्क्षेतिवद्गतवदोकवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
Sarasvaty abhi no (6, 61, 14-16). These verses have the characteristics, śuchi i.e., splendour; satya, i.e., truth; kṣeti, i.e., residence; gate, i.e., gone; oka, i.e., house which is the characteristic of the ninth day.
मूलम्
सरस्वत्यभि नो नेषि वस्य इति प्रउगं शुचिवत्सत्यवत्क्षेतिवद्गतवदोकवन्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः ।
Haug
They are in the Triṣṭubh metre, which is the (leading) metre at the morning libation, during the three (last) days.
मूलम्
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः ।
विश्वास-प्रस्तुतिः
तं तमिद्राधसे महे त्रय इन्द्रस्य सोमा इन्द्र नेदीय एदिहि प्र नूनं ब्रह्मणस्पतिरग्निर्नेता त्वं सोमा क्रतुभिः पिन्वन्त्यपो नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानो नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
The extension (of the Marutvatîya Śâstra) is the same as on the third day which is the characteristic of the ninth day.
मूलम्
तं तमिद्राधसे महे त्रय इन्द्रस्य सोमा इन्द्र नेदीय एदिहि प्र नूनं ब्रह्मणस्पतिरग्निर्नेता त्वं सोमा क्रतुभिः पिन्वन्त्यपो नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानो नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
इन्द्रः स्वाहा पिबतु यस्य सोम इति सूक्तमन्तो वै स्वाहाकारो ऽन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
The five hymns representing cohabitation which contain the characteristics of this day, and represent cattle, are, Indra svâhâ pibatu (3, 50); svâhâ here is an anta; which is the characteristic of the ninth day.
मूलम्
इन्द्रः स्वाहा पिबतु यस्य सोम इति सूक्तमन्तो वै स्वाहाकारो ऽन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
गायत्साम नभन्यं यथा वेरिति सूक्तमर्चाम तद्वावृधानं स्वर्वदित्यन्तो वै स्वरन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
gâyat sâma nabhanyam (1, 173), which contains an anta in the word svar; which is the characteristic of the ninth day.
मूलम्
गायत्साम नभन्यं यथा वेरिति सूक्तमर्चाम तद्वावृधानं स्वर्वदित्यन्तो वै स्वरन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तिष्ठा हरी रथ आ युज्यमानेति सूक्तमन्तो वै स्थितमन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
tiṣṭhâ hari ṛatha (335), which contains an anta in sthâ, to stand; which is the characteristic of the ninth day.
मूलम्
तिष्ठा हरी रथ आ युज्यमानेति सूक्तमन्तो वै स्थितमन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
इमा उ त्वा पुरुतमस्य कारोरिति सूक्तं धियो रथेष्ठामित्यन्तो वै स्थितमन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
imâ u tvâ purutam asya (6, 21), which contains an anta in rathestha, which is the characteristic of the ninth day.
मूलम्
इमा उ त्वा पुरुतमस्य कारोरिति सूक्तं धियो रथेष्ठामित्यन्तो वै स्थितमन्तो नवममहर्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु त्रैष्टुभम् ।
Haug
These four are in the Triṣṭubh metre.
मूलम्
तदु त्रैष्टुभम् ।
विश्वास-प्रस्तुतिः
तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
Haug
by its firm-footed metre he supports the libation, so that it does not fall from its place.
मूलम्
तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
विश्वास-प्रस्तुतिः
प्र मन्दिने पितुमदर्चता वच इति सूक्तं समानोदर्कं नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
The fifth is in the Jagatî metre, pra mandine pitumat (1, 101), whose verses have the same refrain which is the characteristic of the ninth day.
मूलम्
प्र मन्दिने पितुमदर्चता वच इति सूक्तं समानोदर्कं नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु जागतम् ।
Haug
The fifth is in the Jagatî metre.
मूलम्
तदु जागतम् ।
विश्वास-प्रस्तुतिः
जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।
Haug
The Jagatîs being the leading metre on the three (last) days,
मूलम्
जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।
विश्वास-प्रस्तुतिः
तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति ।
Haug
the Nivid is to be put in them.
मूलम्
तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति ।
विश्वास-प्रस्तुतिः
मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च ।
Haug
These hymns in the Triṣṭubh and Jagatî metres are repeated as (representing) cohabitation.
मूलम्
मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च ।
विश्वास-प्रस्तुतिः
मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
Haug
For cattle is cohabitation; the Chandomâs are cattle. (This is done) for obtaining cattle.
मूलम्
मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
विश्वास-प्रस्तुतिः
पञ्च सूक्तानि शस्यन्ते ।
Haug
Five (such) hymns are repeated.
मूलम्
पञ्च सूक्तानि शस्यन्ते ।
विश्वास-प्रस्तुतिः
पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
Haug
For the Paṅkti consists of five pâdas; the sacrifice has the nature of the Paṅkti, and so have cattle (also); the Chandomâh are cattle; (this is done) for obtaining cattle.
मूलम्
पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
विश्वास-प्रस्तुतिः
त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठं भवति नवमे ऽहनि ।
Haug
Tvâm iddhi havâmahe and tvâm hyehi cherave, form the Bṛihat Pṛiṣṭha on the ninth day.
मूलम्
त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठं भवति नवमे ऽहनि ।
विश्वास-प्रस्तुतिः
यद्वावानेति धाय्या ऽच्युता ।
Haug
Yad vâvâna is the invariable Dâyyâ.
मूलम्
यद्वावानेति धाय्या ऽच्युता ।
विश्वास-प्रस्तुतिः
अभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति ।
Haug
By abhi tvâ śûra nonumo all is brought to the womb,
मूलम्
अभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति ।
विश्वास-प्रस्तुतिः
राथंतरं ह्येतदहरायतनेन ।
Haug
because the ninth day is a Rathantara day according to its position.
मूलम्
राथंतरं ह्येतदहरायतनेन ।
विश्वास-प्रस्तुतिः
इन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवान्नवमे ऽहनि नवमस्याह्नो रूपम् ।
Haug
Indra tridhâtu śaraṇam (6, 46, 9-10) is the Sāma Pragātha containing the characteristic “three” which is the characteristic of the ninth day.
मूलम्
इन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवान्नवमे ऽहनि नवमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो ऽच्युतः ।
Haug
Tyam u ṣu vājinaṁ devajūtam is the invariable Tārkṣya.
Haug - Notes
(The Târkṣya just as on the other days.)
मूलम्
त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो ऽच्युतः ।