अपूर्व्या पुरुतमान्यस्मा इति सूक्तम्महे वीराय तवसे तुरायेति महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं तां सु ते कीर्तिम्मघवन्महित्वेति सूक्तम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं त्वम्महाँ इन्द्र यो ह शुष्मैरिति सूक्तम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं त्वम्महाँ इन्द्र तुभ्यं ह क्षा इति सूक्तम्महद्वदष्टमेऽहन्य-ष्टमस्याह्नो रूपन्तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते दिवश्चिदस्य वरिमा वि पप्रथ इति सूक्तमिन्द्रं न मह्नेति महद्वद-ष्टमेऽहनि अष्टमस्याह्नो रूपन्तदु जागतां जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै महद्वन्ति सूक्तानि शस्यन्ते महद्वा अन्तरि-क्षमन्तरिक्षस्याप्त्यै पञ्चपञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश सम्पद्यन्ते सा दशिनी विराळन्नम्विराळ् अन्नम्पशवःपशवश्छन्दोमाः पशू-नामवरुद्ध्यै विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि अष्टमेऽहनि अष्टमस्याह्नो रूपं हिरण्य-पाणिमूतय इति सावित्रमूर्ध्ववदष्टमेऽहन्यष्टमस्याह्नो रूपम्मही द्यौः पृथिवी च न इति द्यावापृथिवीयम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं युवाना पितरा पुनरित्यार्भवम्पुनर्वदष्टमेऽहनि अष्टमस्याह्नो रूपमिमा नु कम्भुवना सीषधामेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनाम-वरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति देवानामिदवो महदिति वैश्वदेवम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यह ऋतावानं वैश्वानरमित्या-ग्निमारुतस्य प्रतिपदग्निर्वैश्वानरो महानिति महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपं क्रीळं वः शर्धो मारुतमिति मारुतं जम्भे रसस्य वावृध इति वृध-न्वदष्टमेऽहन्यष्टमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्या-च्युताग्ने मृळ महाँ असीति जातवेदस्यम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपं तान्यु
गायत्राणि गायत्रतृतीयसवन एष त्र्यह एष त्र्यहः १९
३