१९

विश्वास-प्रस्तुतिः

अपूर्व्या पुरुतमान्यस्मा इति सूक्तं महे वीराय तवसे तुरायेति महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

(The Mahadvat Hymns of the Niṣkevalya Śastra. The Śastras of the Evening Libation.)

The Mahadvat hymn apûrvya purutamâni (6, 32) contains the word ‘mahat’ (in mahe viraya), it is the characteristic form of the eighth day.

मूलम्

अपूर्व्या पुरुतमान्यस्मा इति सूक्तं महे वीराय तवसे तुरायेति महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तां सुते कीर्तिं मघवन्महि त्वेति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

The hymn tâm su te kîrtim (10, 54) contains the word ‘mahat’ and is the characteristic form of the eighth day.

मूलम्

तां सुते कीर्तिं मघवन्महि त्वेति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

त्वं महाँ इन्द्र यो ह शुष्मैरिति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

The hymn tvam mahân Indra yo ha (1, 63) contains the word ‘mahat’ and is the characteristic form of the eighth day.

मूलम्

त्वं महाँ इन्द्र यो ह शुष्मैरिति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

त्वं महाँ इन्द्र तुभ्यं ह क्षा इति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

The hymn tvam mahân indra tubhyam (4, 17) contains the word ‘mahat’ and is the characteristic form of the eighth day.

मूलम्

त्वं महाँ इन्द्र तुभ्यं ह क्षा इति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।

Haug

These hymns are in the Triṣṭubh metre; by means of its padas which remain firm, the Hotar keeps the libation in its proper place, preventing it from falling down.

मूलम्

तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।

विश्वास-प्रस्तुतिः

दिवश्चिदस्य वरिमा विपप्रथ इति सूक्तमिन्द्रं न मह्नेति महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

The hymn divaśchid asya varimâ (1, 55), which contains in the words, indram na mahnâ, the term ‘mahat’, is the characteristic form of the eighth day.

मूलम्

दिवश्चिदस्य वरिमा विपप्रथ इति सूक्तमिन्द्रं न मह्नेति महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तदु जागतम् ।

Haug

This is in the Jagati metre.

मूलम्

तदु जागतम् ।

विश्वास-प्रस्तुतिः

जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।

Haug

The Jagati verses carry the midday libation of this three-day period.

मूलम्

जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।

विश्वास-प्रस्तुतिः

तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते ।

Haug

That is, the metre carries the one in which the Nivid is inserted.

मूलम्

तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते ।

विश्वास-प्रस्तुतिः

तस्माज्जगतीषु निविदं दधाति ।

Haug

Therefore, he places the Nivid in the Jagati verses.

मूलम्

तस्माज्जगतीषु निविदं दधाति ।

विश्वास-प्रस्तुतिः

मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च ।

Haug

Paired hymns are recited, both Triṣṭubh and Jagatî.

मूलम्

मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च ।

विश्वास-प्रस्तुतिः

मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

Haug

A pair is cattle; the Chandomâs are cattle, for the obtaining of cattle.

मूलम्

मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

विश्वास-प्रस्तुतिः

महद्वन्ति सूक्तानि शस्यन्ते ।

Haug

The Mahadvat hymns are recited.

मूलम्

महद्वन्ति सूक्तानि शस्यन्ते ।

विश्वास-प्रस्तुतिः

महद्वा अन्तरिक्षमन्तरिक्षस्या ऽऽप्त्यै ।

Haug

The air is mahat (great), for obtaining the airy region.

मूलम्

महद्वा अन्तरिक्षमन्तरिक्षस्या ऽऽप्त्यै ।

विश्वास-प्रस्तुतिः

पञ्च पञ्च सूक्तानि शस्यन्ते ।

Haug

Twice five hymns are recited.

मूलम्

पञ्च पञ्च सूक्तानि शस्यन्ते ।

विश्वास-प्रस्तुतिः

पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

Haug

The Paṅkti has five feet, the sacrifice is fivefold, cattle are fivefold, the Chandomâs are cattle, for obtaining cattle.

मूलम्

पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

विश्वास-प्रस्तुतिः

तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश सम्पद्यन्ते ।

Haug

Twice five makes ten.[6]

Haug - Notes

[6]Sây- The five Mahadvat hymns of the Marutvatîya, and the five of the Niṣkevalya Śastras are to be understood.

मूलम्

तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश सम्पद्यन्ते ।

विश्वास-प्रस्तुतिः

सा दशिनी विराळन्नं विराट् ।

Haug

This decade is Virâṭ; Virâṭ is food.

मूलम्

सा दशिनी विराळन्नं विराट् ।

विश्वास-प्रस्तुतिः

अन्नं पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

Haug

Cattle are food, the Chandomas are cattle, for obtaining cattle.

मूलम्

अन्नं पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

विश्वास-प्रस्तुतिः

विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हते ऽहन्यष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

Viśvo devasya netus (5, 50, 1) and tat savitur vareṇyam â vis vedevam satpatim (5, 82, 7-8), are the beginning and sequel of the Vaiśvadeva Śastra, the form of the eighth Bṛihati day.

मूलम्

विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हते ऽहन्यष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

हिरण्यपाणिमूतय इति सावित्रमूर्ध्ववदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

Hiraṇyapâṇim ûtaye (1, 22, 5-7), which contains the word ûrdhva (upwards), is the (Nivid) hymn for Savitar, the form of the eighth day.

मूलम्

हिरण्यपाणिमूतय इति सावित्रमूर्ध्ववदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

मही द्यौः पृथिवी च न इति द्यावापृथिवीयं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

Mahî dyâuḥ pṛithivî chana (1, 22, 13-15) is the (Nivid) hymn for Dyâvâpṛithivî, containing the word mahat, the form of the eighth day.

मूलम्

मही द्यौः पृथिवी च न इति द्यावापृथिवीयं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

युवाना पितरा पुनः इति आर्भवम् पुनर्वत् अष्टमे अहनि अष्टमस्य अह्नः रूपम्।

Haug

Yuvânâ pitarâ punar (1, 20, 4-8) is the (Nivid) hymn for the Ribhus, containing the word punar (again), the form of the eighth day.

मूलम्

युवाना पितरा पुनरित्यार्भवं पुनर्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

इमा नु कं भुवना सीषधामेति द्विपदाः शंसति ।

Haug

Imâ nu kam bhuvanâ (10, 157) is the hymn which contains only verses of two feet.[7]

Haug - Notes

[7]It contains five verses, which are called Dvipadâ Triṣṭubh. (Sây, in his Commentary on the Saṁhitâ.)

मूलम्

इमा नु कं भुवना सीषधामेति द्विपदाः शंसति ।

विश्वास-प्रस्तुतिः

द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

Haug

For man has two feet, whilst the animals have four; the Chandomâs are cattle, for obtaining cattle.

मूलम्

द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

विश्वास-प्रस्तुतिः

तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ।

Haug Because he recites the Dvipadas, he thus places the sacrificer with his two feet firmly among the four-footed cattle.
मूलम्

तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ।

विश्वास-प्रस्तुतिः

देवानामिदवो महदिति वैश्वदेवं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug *Devânâm id avo mahad* (8, 72, 1) is the (Nivid) hymn for the Viśvedevâs, containing the term *mahat*, the form of the eighth day.
मूलम्

देवानामिदवो महदिति वैश्वदेवं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ।

Haug

These verses are in the Gâyatri metre; the third libation of this three-day period is in the Gâyatri metre.

मूलम्

तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ।

विश्वास-प्रस्तुतिः

ऋतावानं वैश्वानरमित्याग्निमारुतस्य प्रतिपदग्निर्वैश्वानरो महानिति महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

Ṛitâvânam vaiśvânaram is the introductory verse of the Agnimâruta Sastra. “Agni Vaiśvānara is great” (agnir vaiśvânaro mahân); thus it contains ‘mahat’ and is the form of the eighth day.

मूलम्

ऋतावानं वैश्वानरमित्याग्निमारुतस्य प्रतिपदग्निर्वैश्वानरो महानिति महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

क्रीळं वः शर्वो मारुतमिति मारुतं जम्भे रसस्य वावृध इति वृधन्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

Krîḷam vaḥ śardho mârutam (1, 37) is the hymn for the Marutas. It contains the word vavṛidhe (in jambhe rasasya vavridhe), which is characteristic of the eighth day.

मूलम्

क्रीळं वः शर्वो मारुतमिति मारुतं जम्भे रसस्य वावृध इति वृधन्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।

Haug

Jâtavedase sunavâma is the invariable Jâtavedâs verse.

मूलम्

जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।

विश्वास-प्रस्तुतिः

अग्ने मृळ महाँ असीति जातवेदस्यं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

Haug

Agne mṛiḷa mahân asi (4, 9) is the (Nivid) hymn for Jâtavedâs; it contains the characteristic term mahad and is the form of the eighth day.

मूलम्

अग्ने मृळ महाँ असीति जातवेदस्यं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यह एष त्र्यहः ।

Haug

All these verses are in the Gāyatrī metre; the third libation of this three-day period is in the Gayatri metre.

मूलम्

तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यह एष त्र्यहः ।