विश्वास-प्रस्तुतिः
यद्वै नेति न प्रेति यत्स्थितं तदष्टमस्याह्नो रूपम् ।
Haug
(The Characteristics of the Eighth day. The Śastras of the Morning and Midday Libations.)
Neither the words â nor pra, but what is “standing” is the characteristic of the eighth day;
मूलम्
यद्वै नेति न प्रेति यत्स्थितं तदष्टमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
यद्ध्येव द्वितीयमहस्तदेवैतत्पुनर्यदष्टमम् ।
Haug
because the eighth is identical with the second.
मूलम्
यद्ध्येव द्वितीयमहस्तदेवैतत्पुनर्यदष्टमम् ।
विश्वास-प्रस्तुतिः
यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्द्व्यग्नि यन्महद्वद्यद्द्विहूतवद्यत्पुनर्वद्यत्कुर्वत् यद्द्वितीयस्याह्नो रूपमेतानि वा अष्टमस्याह्नो रूपाणि ।
Haug
The characteristics are, ûrdhva, prati, antar, vṛishan, vṛidhan, the mentioning of the deity in the middle pâda, an allusion to the airy region, twice the name Agni (in the same pâda), the words mahad, vihûta punar, the present tense.
मूलम्
यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्द्व्यग्नि यन्महद्वद्यद्द्विहूतवद्यत्पुनर्वद्यत्कुर्वत् यद्द्वितीयस्याह्नो रूपमेतानि वा अष्टमस्याह्नो रूपाणि ।
विश्वास-प्रस्तुतिः
अग्निं वो देवमग्निभिः सजोषा इत्यष्टमस्याह्न आज्यं भवति द्व्यग्न्यष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
Haug
Agnim vo devam agnibhiḥ (7, 3) is the Ajya of the eighth day; because it contains twice the word agni.
मूलम्
अग्निं वो देवमग्निभिः सजोषा इत्यष्टमस्याह्न आज्यं भवति द्व्यग्न्यष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः ।
Haug
It is in the Triṣṭubh metre; for the Triṣṭubh is the leading metre at the morning libation during these three days.
मूलम्
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः ।
विश्वास-प्रस्तुतिः
कुविदङ्ग नमसा ये वृधासः पीवो अन्नाँ रयिवृधः सुमेधा उच्छन्नुषसः सुदिना अरिप्रा उशन्ता दूता न दभाय गोपा यावत्तरस्तन्वो ३ यावदोजः प्रति वां सूर उदिते सूक्तैर्धेनुः प्रत्नस्य काम्यं दुहाना ब्रह्माण इन्द्रोप याहि विद्वानूर्ध्वो अग्निः सुमतिं वस्वो अश्रेदुत स्या नः सरस्वती जुषाणेति प्रउगं प्रतिवदन्तर्वद्द्विहूतवदूर्ध्ववदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
Haug
The Pra-uga Śastra is composed of the following verses : Kuvid aṅga namasâ (7, 91, 1,) pîvo annân (7, 91, 3,) uchhan uṣasaḥ (7, 90, 4), uśantâ dûtâ (7, 91, 2,) yâvat taras (7, 91, 4-5,) prati vâm sûra udite (7, 65, 1-3,) dhenuḥ pratnasya (3, 58, 1-3), Brahmâṇa indropa (7, 28, 1-3,) ûrdhvo agniḥ sumatim (7, 39, 1-3) uta syâ naḥ sarasvatî (7, 95, 4-6). In these verses are the characteristics prati, antar, vihûta, urdhvai contained;
मूलम्
कुविदङ्ग नमसा ये वृधासः पीवो अन्नाँ रयिवृधः सुमेधा उच्छन्नुषसः सुदिना अरिप्रा उशन्ता दूता न दभाय गोपा यावत्तरस्तन्वो ३ यावदोजः प्रति वां सूर उदिते सूक्तैर्धेनुः प्रत्नस्य काम्यं दुहाना ब्रह्माण इन्द्रोप याहि विद्वानूर्ध्वो अग्निः सुमतिं वस्वो अश्रेदुत स्या नः सरस्वती जुषाणेति प्रउगं प्रतिवदन्तर्वद्द्विहूतवदूर्ध्ववदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः ।
Haug
they are in the Triṣṭubh metre, which is the leading metre at the morning libation on these three days.
मूलम्
तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः ।
विश्वास-प्रस्तुतिः
विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इन्द्र नेदीय एदिह्युत्तिष्ठ ब्रह्मणस्पते ऽग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो बृहदिन्द्राय गायतेति द्वितीयेनाह्ना समान आतानो ऽष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
Haug
The extension (of the Marutvatîya Śastra) consists of the following verses : Viśvânarasya vaspatim (8, 57, 4), Indra it Somapâ ekaḥ (8, 2, 4), Indra nedîya ed ihi (Vâl. 5, 5-6), uttiṣṭha Brahmaṇaspate (1, 40, 1-2), agnir netâ tvaṁ Soma kratubhiḥ, pinvanty apo, bṛihad indrâya gâyata. This Śastra is identical with that of the second day.
मूलम्
विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इन्द्र नेदीय एदिह्युत्तिष्ठ ब्रह्मणस्पते ऽग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो बृहदिन्द्राय गायतेति द्वितीयेनाह्ना समान आतानो ऽष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
शंसा महामिन्द्रं यस्मिन्विश्वा इति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
Haug
Now follow the Mahadvat hymns, i. e., such ones as contain the word mahat, great. (These are) saṁsâ mahâm (3, 49),
मूलम्
शंसा महामिन्द्रं यस्मिन्विश्वा इति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
महश्चित्त्वमिन्द्र यत एतानिति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
Haug
mahaśchit tvam (1, 169),
मूलम्
महश्चित्त्वमिन्द्र यत एतानिति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
पिबा सोममभि यमुग्र तर्द इति सूक्तमूर्वं गव्यं महि गृणान इन्द्रेति महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
Haug
pibâ somam abhi yam (6, 17), in the words ûrvam gavyam mahi,
मूलम्
पिबा सोममभि यमुग्र तर्द इति सूक्तमूर्वं गव्यं महि गृणान इन्द्रेति महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
महाँ इन्द्रो नृवदा चर्षणिप्रा इति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
Haug
mahâm indro nṛivat (6, 19).
मूलम्
महाँ इन्द्रो नृवदा चर्षणिप्रा इति सूक्तं महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
Haug
This hymn is in the Triṣṭubh metre; by means of its pâdas which remain firm, thè Hotar keeps the libation in its proper place, preventing it from falling down.
मूलम्
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
विश्वास-प्रस्तुतिः
तमस्य द्यावापृथिवी सचेतसेति सूक्तं यदैत्कृण्वानो महिमानमिन्द्रियमिति महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
Haug
Tam asya dyâvâ pṛithivî (10, 113) is a mahadvat hymn also; for, in the second pâda of the first verse, the word mahimâno occurs.
मूलम्
तमस्य द्यावापृथिवी सचेतसेति सूक्तं यदैत्कृण्वानो महिमानमिन्द्रियमिति महद्वदष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु जागतं जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।
Haug
It is in the Jagatî metre. The Jagatîs are the leading metres at the midday libation during the three last days (above-mentioned).
मूलम्
तदु जागतं जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।
विश्वास-प्रस्तुतिः
तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति ।
Haug
Thence the Nivid is placed in it.
मूलम्
तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति ।
विश्वास-प्रस्तुतिः
मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
Haug
These hymns represent cohabitation; they are in the Triṣṭubh and Jagatî metres, for cattle is represented by cohabitation, and, for obtaining cattle, the mahadvat hymns are repeated.
मूलम्
मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
विश्वास-प्रस्तुतिः
महद्वन्ति सूक्तानि शस्यन्ते महद्वा अन्तरिक्षमन्तरिक्षस्या ऽऽप्त्यै ।
Haug
The air is mahad; in order to obtain the airy region,
मूलम्
महद्वन्ति सूक्तानि शस्यन्ते महद्वा अन्तरिक्षमन्तरिक्षस्या ऽऽप्त्यै ।
विश्वास-प्रस्तुतिः
पञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
Haug
five hymns (there are five, four in Triṣṭubh, and one in Jagatî) are required. For the Paṅkti metre comprises five pâdas, the sacrifice belongs to this metre, cattle belong to it; cattle is represented by the Chandomâs.
मूलम्
पञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।
विश्वास-प्रस्तुतिः
अभि त्वा शूर नोनुमो ऽभि त्वा पूर्वपीतय इति रथंतरं पृष्ठं भवत्यष्टमे ऽहनि ।
Haug
Abhi tvâ śûra nonumaḥ, and abhi tvâ pûrvapîtaye form the Rathantaram Pṛiṣṭham of the eighth day.
मूलम्
अभि त्वा शूर नोनुमो ऽभि त्वा पूर्वपीतय इति रथंतरं पृष्ठं भवत्यष्टमे ऽहनि ।
विश्वास-प्रस्तुतिः
यद्वावानेति धाय्या ऽच्युता ।
Haug
Yad vâvâna is the invariable Dhâyyâ.
मूलम्
यद्वावानेति धाय्या ऽच्युता ।
विश्वास-प्रस्तुतिः
त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेन ।
Haug
By tvâm iddhi havâmahe all is brought back to the womb; for this day is a Bâṛhata day according to its position.
मूलम्
त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेन ।
विश्वास-प्रस्तुतिः
उभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हते ऽहन्यष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
Haug
Ubhayaṁ sriṇavaccha (8, 50, 1-2) is the Sâma Pragâtha; the meaning of ubhayam i. e., both, in it is, what is to-day and what was yesterday. This is a characteristic of the eighth day, which is a Bṛihat day.
मूलम्
उभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हते ऽहन्यष्टमे ऽहन्यष्टमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो ऽच्युतः ।
Haug
Tyam û ṣu vâjinam is the invariable Târkṣya.
मूलम्
त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो ऽच्युतः ।