१८

यद्वै नेति न प्रेति यत्स्थितं तदष्टमस्याह्नो रूपं यद्ध्येव द्वितीयमहस्तदेवै-तत्पुनर्यदष्टमं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्द्व्यग्नि यन्महद्वद्यद्द्विहूतवद्यत्पुनर्वद्यत्कुर्व-द्यद्द्वितीयस्याह्नो रूपं एतानि वा अष्टमस्याह्नो रूपाण्यग्निं वो देवमग्निभिः सजोषा इत्यष्टमस्याह्न आज्यम्भवति द्व्यग्न्यष्टमेऽहनि अष्टमस्याह्नो रूपन्तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्! यहः कुविदङ्ग नमसा ये वृधासः पीवोअन्नाँ रयिवृधः सुमेधा उछन्नुषसः सुदिना अरिप्रा उशन्ता दूता न दभाय गोपा यावत्तरस्तन्वो यावदोजः प्रति वां सूर उदिते सूक्तैर्धेनुः प्रत्नस्य काम्यं दुहाना ब्रह्मा णा इन्द्रो प याहि विद्वानूर्ध्वो अग्निः सुमतिं वस्वो अश्रेदुत स्या नः सरस्वती जुषाणेति प्रउगम्प्रतिवदन्तर्वद्द्विहूतवदूर्ध्ववदष्टमेऽहन्यष्टमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहो विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इन्द्र नेदीय एदिह्युत्तिष्ठ ब्रह्मणस्पतेऽग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो बृहदिन्द्रा य गायतेति द्वितीयेनाह्ना समान आतानोऽष्टमेऽहनि अष्टमस्याह्नो रूपम्शंसा महामिन्द्रं यस्मिन्विश्वा इति सूक्तम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम्महश्चि-त्त्वमिन्द्र यत एतानिति सूक्तम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम्पिबा सोममभि यमुग्र तर्द इति सूक्तमूर्वं गव्यम्महि गृणान इन्द्रे ति महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम्महाँ इन्द्रो नृवदा चर्षणिप्रा इति सूक्तम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते तमस्य द्यावापृथिवी सचेतसेति सूक्तं यदैत्कृण्वानो महिमानमिन्द्रि यमिति महद्वदष्ट-मेऽहन्यष्टमस्याह्नो रूपन्तदु जागतं जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै महद्वन्ति सूक्तानि शस्यन्ते महद्वा अन्तरि-क्षमन्तरिक्षस्याप्त्यै पञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्या अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरम्पृष्ठम्भवत्यष्टमेऽहनि यद्वावानेति धाय्याच्युता त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेनोभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हतेऽहन्यष्टमेऽहनि

अष्टमस्याह्नो रूपं त्यमूषु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः १८