१७

विश्वास-प्रस्तुतिः

इन्द्रस्य नु वीर्याणि प्रवोचमिति सूक्तं प्रेति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

Haug

(The Remainder of the Niṣkevalya Śāstra. The Śāstras of the Evening Libation.)

Indrasya nu vîryâṇi (1, 32) is a hymn which has the characteristic word pra of the seventh day.

मूलम्

इन्द्रस्य नु वीर्याणि प्रवोचमिति सूक्तं प्रेति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तदु त्रैष्टुभम् ।

Haug

It is in the Triṣṭubh metre.

मूलम्

तदु त्रैष्टुभम् ।

विश्वास-प्रस्तुतिः

तेन प्रतिष्ठितपदेन सवनं दाधार ।

Haug

By means of the pādas which remain firm, the Hotar keeps the libation in its proper place,

मूलम्

तेन प्रतिष्ठितपदेन सवनं दाधार ।

विश्वास-प्रस्तुतिः

आयतनादेवैतेन न प्रच्यवते ।

Haug

preventing it from falling down.

मूलम्

आयतनादेवैतेन न प्रच्यवते ।

विश्वास-प्रस्तुतिः

अभि त्यं मेषं पुरुहूतमृग्मियमिति सुक्तम् ।

Haug

Abhi tyaṁ meṣam puruhûtam (1, 51, 1) is a hymn

मूलम्

अभि त्यं मेषं पुरुहूतमृग्मियमिति सुक्तम् ।

विश्वास-प्रस्तुतिः

यद्वाव प्रेति तदभीति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

Haug

in which pra is replaced by abhi, forming a characteristic of the seventh day.

मूलम्

यद्वाव प्रेति तदभीति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तदु जागतम् ।

Haug

It is in the Jagatî metre,

मूलम्

तदु जागतम् ।

विश्वास-प्रस्तुतिः

जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।

Haug

because the Jagatîs are the leading metres at the midday libation.

मूलम्

जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।

विश्वास-प्रस्तुतिः

तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते ।

Haug

Therefore the Nivid is to be placed in it.

मूलम्

तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते ।

विश्वास-प्रस्तुतिः

तस्माज्जगतीषु निविदं दधाति ।

Haug

These hymns representing cohabitation are now repeated, which are in the Triṣṭubh and Jagatî metres;

मूलम्

तस्माज्जगतीषु निविदं दधाति ।

विश्वास-प्रस्तुतिः

मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च ।

Haug

because cohabitation represents cattle, and the Chandomâs represent cattle; (this is done) in order to obtain cattle.

मूलम्

मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च ।

विश्वास-प्रस्तुतिः

मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

Haug

Tat savitur vṛiṇîmahe (5, 82, 1-3), adya no deva Savitar (5, 82, 3-5) are the beginning and sequel of the Vaiśvadeva Śāstra in the Rathantara days, on the seventh day.

मूलम्

मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

विश्वास-प्रस्तुतिः

तत्सवितुर्वृणीमहे ऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरे ऽहनि सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

Haug

Abhi tvâ deva Savitar (1, 24, 3) is the (Nivid) hymn for Savitar, which contains instead of pra the word abhi, which is identical with pra, a characteristic of the seventh day.

मूलम्

तत्सवितुर्वृणीमहे ऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरे ऽहनि सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

अभि त्वा देव सवितरिति सावित्रम् ।

Haug

Pretâm yajñasya (2, 41, 19) is the (Nivid) hymn for Dyâvâpṛithivî, which contains the word pra.

मूलम्

अभि त्वा देव सवितरिति सावित्रम् ।

विश्वास-प्रस्तुतिः

यद्वाव प्रेति तदभीति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

Haug

Ayam devâya janmana (1, 20) is the (Nivid) hymn for the Ṛibhus, which contains the word jan, to be born.

मूलम्

यद्वाव प्रेति तदभीति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

प्रेतां यज्ञस्य शम्भुवेति द्यावापृथिवीयम् ।

Haug

He repeats now the verses, consisting of two pādas, commencing âyâhi raṇasâ saha, (10, 172, 1);

मूलम्

प्रेतां यज्ञस्य शम्भुवेति द्यावापृथिवीयम् ।

विश्वास-प्रस्तुतिः

प्रेति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

Haug

for man has two feet, and animals have four; animals are represented by the Chandomâs. (This is done) for obtaining cattle.

मूलम्

प्रेति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

अयं देवाय जन्मन इत्यार्भवं जातवत्सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

Haug

If he repeats these verses which consist of two feet, then he places the sacrificer, who has two legs, among the four-footed cattle.[5]

Haug - Notes

[5]He makes him obtain them.

मूलम्

अयं देवाय जन्मन इत्यार्भवं जातवत्सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

आ याहि वनसा सहेति द्विपदाः शंसति ।

Haug

Abhir agne duvo (1, 14) is the (Nivid) hymn for the Viśvedevāḥ, which has the characteristic â of the seventh day.

मूलम्

आ याहि वनसा सहेति द्विपदाः शंसति ।

विश्वास-प्रस्तुतिः

द्विपाद्वै पुरुषश्चतुष्पादाः पशवः ।

Haug

It is in the Gāyatrī metre; for the third libation is headed by the Gāyatrī during these three days.

मूलम्

द्विपाद्वै पुरुषश्चतुष्पादाः पशवः ।

विश्वास-प्रस्तुतिः

पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

Haug

Viśvânaro ajîjanat is the beginning of the Agnimâruta Śāstra, which contains the word jan, to be born.

मूलम्

पशवश्छन्दोमाः पशूनामवरुद्ध्यै ।

विश्वास-प्रस्तुतिः

तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ।

Haug

Pra yad vas triṣṭubham (8, 7) is the (Nivid) hymn for the Marutas, which has the word pra.

मूलम्

तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ।

विश्वास-प्रस्तुतिः

ऐभिरग्ने दुवो गिर इति वैश्वदेवमेति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

Haug

Jātavedase sunavāma (1, 99, 1) is the invariable Jātavedas verse.

मूलम्

ऐभिरग्ने दुवो गिर इति वैश्वदेवमेति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ।

Haug

Dûtam vo viśvavedasam (4, 8) is the (Nivid) hymn for Jātavedas, where the name (Jātavedas) is not explicitly mentioned (only hinted at).

मूलम्

तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ।

विश्वास-प्रस्तुतिः

वैश्वानरो आजीजनदित्याग्निमारुतस्य प्रतिपज्जातवत्सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

Haug

All these are in the Gāyatrī metre; for the third libation on these three days is headed by the Gāyatrī.

मूलम्

वैश्वानरो आजीजनदित्याग्निमारुतस्य प्रतिपज्जातवत्सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

प्र यद्वस्त्रिष्टुभमिषमिति मारुतं प्रेति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

Haug

Jātavedase sunavāma somam iti is the invariable verse to Jātavedas.

मूलम्

प्र यद्वस्त्रिष्टुभमिषमिति मारुतं प्रेति सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।

Haug

Dūtam vo viśvavedasam iti is the hymn to Jātavedas, but unexpressed, on the seventh day; it is the form of the seventh day.

मूलम्

जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।

विश्वास-प्रस्तुतिः

दूतं वो विश्ववेदसमिति जातवेदस्यमनिरुक्तं सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

Haug

They are the Gāyatrī verses of the Gāyatrī-tṛtīyasavana, these three days.

मूलम्

दूतं वो विश्ववेदसमिति जातवेदस्यमनिरुक्तं सप्तमे ऽहनि सप्तमस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ।

Haug

These are in the Gāyatrī metre, for this three-day period has a third libation in the Gāyatrī metre.

मूलम्

तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ।