१७

इन्द्र स्य नु वीर्याणि प्र वोचमिति सूक्तम्प्रेति सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवतेऽभि त्यम्मेषम्पुरुहूतमृग्मियमिति सुक्तं यद्वाव प्रेति तदभीति सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि सप्तमेऽहनि सप्तमस्याह्नो रूपमभि त्वा देव सवितरिति सावित्रं यद्वाव प्रेति तदभीति सप्तमेऽहनि सप्तमस्याह्नो रूपम्प्रेतां यज्ञस्य शम्भुवेति द्यावापृथिवीयम्प्रेति सप्तमेऽहनि सप्तमस्याह्नो रूपमयं देवाय जन्मन इत्यार्भवं जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपमा याही वनसा सहेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूना-मवरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयत्यैभिरग्ने दुवो गिर इति वैश्वदेवमेति सप्तमेऽहनि सप्तमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहो वैश्वानरो आजीजनदित्या-ग्निमारुतस्य प्रतिपज्जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपम्प्र यत्वस्त्रिष्टुभमि-षमिति मारुतम्प्रेति सप्तमेऽहनि सप्तमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता दूतं वो विश्ववेदसमिति जातवेदस्यमनिरुक्तं

सप्तमेऽहनि सप्तमस्याह्नो रूपं तान्यु गायत्रानि गायत्रतृतीयसवन एष त्र्! यहः १७