यद्वा एति च प्रेति च तत्सप्तमस्याह्नो रूपं यद्ध्येव प्रथममहस्तदेवैतत्पुनर्यत्सप्तमं यद्युक्तवद्यद्र थवद्यदाशुमद्यै पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यज्जातवद्यदनिरुक्तं यत्करिष्यद्य प्रथमस्याह्नो रूपं एतानि वै सप्तमस्याह्नो रूपाणि समुद्रा दूर्मिर्मधुमाँ उदारदिति सप्तमस्याह्न आज्यम्भव-त्यनिरुक्तम्सप्तमेऽहनि सप्तमस्याह्नो रूपं वाग्वै समुद्रो न वै वाक्क्षीयते न समुद्रः क्षीयते तद्यदेतत्सप्तमस्याह्न आज्यम्भवति यज्ञादेव तद्यज्ञं तन्वते वाचमेव तत्पुनरुपयन्ति संतत्यै संततैस्त्र्यहैरव्यवछिन्नैर्यन्ति य एवं विद्वांसो यन्त्याप्यन्ते वै स्तोमा आप्यन्ते छन्दांसि षष्ठेऽहनि तद्यथैवाद आज्येनावदानानि पुनः प्रत्यभिघारयन्त्ययातयामताया एवमेवैतत्स्तोमांश्च छन्दांसि च पुनः प्रत्युपयन्त्ययातयामतायै यदेतत्सप्तमस्याह्न आज्यम्भवति तदु त्रैष्टुभं त्रिष्टु-प्प्रातःसवन एष त्र्यह आ वायो भूष शुचिपा उप नः प्र याभिर्यासि दाश्वांसमछा नो नियुद्भिः शतिनीभिरध्वरम्प्र सोता जीरो अध्वरेष्वस्थाद्य वायव इन्द्र मादनासो या वां शतं नियुतो याः सहस्रम्प्र यद्वाम्मित्रावरुणा स्पूर्धन्ना गोमता नासत्या रथेना नो देव शवसा याहि शुष्मिन्प्र वो यज्ञेषु देवयन्तो अर्चन्प्र क्षोदस धायसा सस्र एषेति प्रउगमेति च प्रेति च सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यह आ त्वा रथं यथोतय इदं वसो सुतमन्ध इन्द्र नेदीय एदिहि प्रैतु ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपः प्र व इन्द्रा य बृबत इति प्रथमेनाह्ना समान आतानः सप्तमेऽहनि सप्तमस्याह्नो रूपं कया शुभा सवयसः सनीळा इति सूक्तं न जायमानो नशते न जात इति जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु कयाशुभीयमेतद्वै संज्ञानं संतनि सूक्तं यत्कयाशुभीयमेतेन ह वा इन्द्रो ऽगस्त्यो मरुतस्ते समजानत तद्यत्कयाशुभीयं शंसति संज्ञात्या एव तद्वायुष्यं तद्योऽस्य प्रियः स्यात्कु-र्यादेवास्य कयाशुभीयं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते त्यं सु मेषम्महया स्वर्विदमिति सूक्तमत्यं न वाजं हवनस्यदं रथमिति रथवत्सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्! यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानी च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठम्भवति सप्तमेऽहनि यदेव षष्ठस्याह्नस्तद्यद्वै रथंतरं तद्वैरूपं यद्बृहत्तद्वैराजं यद्र थंतरं तच्छाक्वरं यद्बृहत्तद्रै वतं तद्यद्बृहत्पृष्ठम्भवति बृहतैव तद्बृहत्प्रत्युत्तभ्नुवन्त्यस्तोमकृन्तत्राय यद्र थंतरं स्यात्कृन्तत्रं स्यात्तस्माद्बृहदेव कर्तव्यं यद्वावानेति धाय्याच्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेन पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्सप्तमेऽहनि सप्तमस्याह्नो रूपन्त्यमू षु वाजिनं देवजूतमिति
तार्क्ष्योऽच्युतः १६