१५

तान्येतानि सहचराण्यित्याचक्षते नाभानेदिष्ठं वालखिल्या वृषाकपिमेवा-यमरुतं तानि सहैव शंसेद्यदेषामन्तरियात्तद्यजमानस्यान्तरियाद्यदि नाभानेदिष्ठं रेतोऽस्यान्तरियाद्यदि वालखिल्याः प्राणानस्यान्तरियाद्यदि वृषाकपिमात्मान-मस्यान्तरियाद्यद्येवयामरुतम्प्रह्ष्ठाया एनं च्यावयेद्दैव्यै च मानुष्यै च ना-भानेदिष्ठेनैव रेतोऽसिञ्चत्तद्वालखिल्याभिर्व्यकरोत्सुकीर्तिना काक्षीवतेन योनिं व्यहापयदुरौ यथा तव शर्मन्मदेमेति तस्माज्ज्यायान्सन्गर्भः कनीयांसं सन्त-म्योनिं न हिनस्ति ब्रह्मणा हि स कॢप्त एवयामरुतैतवै करोति तेनेदं सर्वमेतवै कृतमेति यदिदं किंचाहश्च कृष्णमहरर्जुनं चेत्याग्निमारुतास्य प्रतिपदहश्चाहश्चेति पुनरावृत्तम्पुनर्निनृत्तं षष्ठेऽहनि षष्ठस्याह्नो रूपम्मध्वो वो नाम मारुतं यजत्रा इति मारुतम्बह्वभिव्याहृत्यमन्तो वै बह्वन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं जा-तवेदसे सुनवाम सोममिति जातवेदस्याच्युता स प्रत्नथा सहसा जायमान इति जातवेदस्यं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपं धारयन्धारयन्निति शंसति प्रस्रंसाद्वा अन्तस्य बिभाय तद्यथा पुनराग्रन्थम्पुनर्निग्रन्थमन्तम्बध्नीयान्मयूखं वान्ततो धारणाय निहन्यात्तादृक्तद्यद्धारयन्-धारयन्निति शंसति संतत्यै

संततैस्त्र्यहैरव्यवछिन्नैर्यन्ति य एवं विद्वांसो यन्ति यन्ति १५