विश्वास-प्रस्तुतिः
तान्येतानि सहचराणीत्याचक्षते नाभानेदिष्ठं वालखिल्या वृषाकपिमेवयामरुतम् ।
Haug
On the auxiliary Śastras at the Evening Libation, Nābhānediṣṭha, Vālakhilyā, the Sukīrti Hymn, Vṛiśākapi, and Evayāmarut. The Agnimāruta Śastra of the Sixth Day. (See 6, 27-30.)
The Hotar ought to repeat those Śāstras which are called the accompaniments (of the others on the sixth day), viz., the Nābhānediṣṭham, Vālakhilyâ, Vṛiṣâkapi and Evayâmaruta only as auxiliaries (to the Vaiśvadeva-Śāstra).
मूलम्
तान्येतानि सहचराणीत्याचक्षते नाभानेदिष्ठं वालखिल्या वृषाकपिमेवयामरुतम् ।
विश्वास-प्रस्तुतिः
तानि सहैव शंसेत् ।
Haug
If the Hotar foregoes only one of them, (these additional Śāstras), the sacrificer will lose something.
मूलम्
तानि सहैव शंसेत् ।
विश्वास-प्रस्तुतिः
यदेषामन्तरियात्तद्यजमानस्यान्तरियात् ।
Haug
If he foregoes the Nābhānediṣṭham, then the sacrificer will lose his semen;
मूलम्
यदेषामन्तरियात्तद्यजमानस्यान्तरियात् ।
विश्वास-प्रस्तुतिः
यदि नाभानेदिष्ठं रेतो ऽस्यान्तरियात् ।
Haug
if he foregoes the Vālakhilyâs, then the sacrificer will lose his breath;
मूलम्
यदि नाभानेदिष्ठं रेतो ऽस्यान्तरियात् ।
विश्वास-प्रस्तुतिः
यदि वालखिल्याः प्राणानस्यान्तरियात् ।
Haug
if he foregoes the Vṛiṣâkapi, the sacrificer will lose his soul;
मूलम्
यदि वालखिल्याः प्राणानस्यान्तरियात् ।
विश्वास-प्रस्तुतिः
यदि वृषाकपिमात्मानमस्यान्तरियात् ।
Haug
and if he foregoes the Evayâmarutam, then he will turn the sacrificer out of his divine and human position.
मूलम्
यदि वृषाकपिमात्मानमस्यान्तरियात् ।
विश्वास-प्रस्तुतिः
यद्येवयामरुतं प्रतिष्ठाया एनं च्यावयेद्दैव्यै च मानुष्यै च ।
Haug
By means of the Nābhānediṣṭham, he (the priest) poured the semen into the sacrificer;
मूलम्
यद्येवयामरुतं प्रतिष्ठाया एनं च्यावयेद्दैव्यै च मानुष्यै च ।
विश्वास-प्रस्तुतिः
नाभानेदिष्ठेनैव रेतो ऽसिञ्चत्तद्वालखिल्याभिर्व्यकरोत्सुकीर्तिना काक्षीवतेन योनिं व्यहापयदुरौ यथा तव शर्मन्मदेमेति ।
Haug
by means of the Vālakhilyâ verses, he transformed them (to make an embryo). By means of the hymn[21] by Sukīrti, the son of Kakṣīvat, he made the womb set forth the child, because therein (in the first verse is said), “Let us rejoice in thy shelter, Indra! (just as people find pleasure in a large commodious room).”
Haug - Notes
[21]Apa prâcha Indra (10, 131).
मूलम्
नाभानेदिष्ठेनैव रेतो ऽसिञ्चत्तद्वालखिल्याभिर्व्यकरोत्सुकीर्तिना काक्षीवतेन योनिं व्यहापयदुरौ यथा तव शर्मन्मदेमेति ।
विश्वास-प्रस्तुतिः
तस्माज्ज्यायान्सन्गर्भः कनीयांसं सन्तं योनिं न हिनस्ति ।
Haug
Thence the child (garbha), though being larger, does not damage the womb which is (much) smaller.
मूलम्
तस्माज्ज्यायान्सन्गर्भः कनीयांसं सन्तं योनिं न हिनस्ति ।
विश्वास-प्रस्तुतिः
ब्रह्मणा हि स कॢप्तः ।
Haug
If the womb is prepared by (this) sacred hymn (Brahma, the Sukīrti hymn),
मूलम्
ब्रह्मणा हि स कॢप्तः ।
विश्वास-प्रस्तुतिः
एवयामरुतैतवै करोति तेनेदं सर्वमेतवै कृतमेति यदिदं किञ्च ।
Haug
then the Hotar imparts to the sacrificer the faculty of walking by means of the Evayâmaruta hymn (5, 87). If he has done all required for making the sacrificer walk, then he walks (he has obtained the faculty of walking).
मूलम्
एवयामरुतैतवै करोति तेनेदं सर्वमेतवै कृतमेति यदिदं किञ्च ।
विश्वास-प्रस्तुतिः
अहश्च कृष्णमहरर्जुनं चेत्याग्निमारुतस्य प्रतिपत् ।
Haug
Ahaśca kṛiṣṇam ahar arjunam (6, 9, 1-33) is the beginning of the Agnimāruta Śāstra,
मूलम्
अहश्च कृष्णमहरर्जुनं चेत्याग्निमारुतस्य प्रतिपत् ।
विश्वास-प्रस्तुतिः
अहश्चाहश्चेति पुनरावृत्तं पुनर्निनृत्तं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
because ahas is a repetition, and a consonance, which is a characteristic of the sixth day.
मूलम्
अहश्चाहश्चेति पुनरावृत्तं पुनर्निनृत्तं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
मध्वो वो नाम मारुतं यजत्रा इति मारुतम् ।
Haug
Madhvo vo nāma mārutam yajatrā (7, 57) is the Maruta hymn.
मूलम्
मध्वो वो नाम मारुतं यजत्रा इति मारुतम् ।
विश्वास-प्रस्तुतिः
बह्वभिव्याहृत्यम् ।
Haug
Here is the plural (because the Marutas are many) to be urged;
मूलम्
बह्वभिव्याहृत्यम् ।
विश्वास-प्रस्तुतिः
अन्तो वै बह्वन्तः षष्ठमहः ।
Haug
because the plural is an anta,
मूलम्
अन्तो वै बह्वन्तः षष्ठमहः ।
विश्वास-प्रस्तुतिः
षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
and this is a characteristic of the sixth day.
मूलम्
षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।
Haug
Jātavedase sunavāma (1, 99, 1), is the invariable Jātavedas verse.
मूलम्
जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।
विश्वास-प्रस्तुतिः
स प्रत्नथा सहसा जायमान इति जातवेदस्यं समानोदर्कं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Sa pratnathā sahasā (1, 96, 1) is the (Nivid) hymn for Jātavedas, whose verses have the same refrain, which is a characteristic of the sixth day.
मूलम्
स प्रत्नथा सहसा जायमान इति जातवेदस्यं समानोदर्कं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
धारयन्धारयन्निति शंसति ।
Haug
The priest, apprehending the anta, i. e., ends of the sacrifice, might fall down, keeps them up by repeating twice the word dhārayan,[22] i. e., they may hold,
Haug - Notes
[22]It is in the last pada of all verses of this hymn.
मूलम्
धारयन्धारयन्निति शंसति ।
विश्वास-प्रस्तुतिः
प्रस्रंसाद्वा अन्तस्य बिभाय ।
Haug
just as one ties and unties successively the ends of a cord,[23]
Haug - Notes
[23]In order to make of them a large ring.
मूलम्
प्रस्रंसाद्वा अन्तस्य बिभाय ।
विश्वास-प्रस्तुतिः
तद्यथा पुनराग्रन्थं पुनर्निग्रन्थमन्तं बध्नीयान्मयूखं वा ऽन्ततो धारणाय निहन्यात्तादृक्तद्यद्धारयन्धारयन्निति शंसति संतत्यै ।
Haug
or just as one (a tanner) is driving in the end of a (wetted) skin a peg, in order to keep it (expanded). It is done to keep the sacrifice uninterrupted.
मूलम्
तद्यथा पुनराग्रन्थं पुनर्निग्रन्थमन्तं बध्नीयान्मयूखं वा ऽन्ततो धारणाय निहन्यात्तादृक्तद्यद्धारयन्धारयन्निति शंसति संतत्यै ।
विश्वास-प्रस्तुतिः
संततैस्त्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति यन्ति ।
Haug
Those who have such a knowledge have the three days continuous and unbroken (undisturbed).
मूलम्
संततैस्त्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति यन्ति ।