१४

नाभानेदिष्ठं शंसति नाभानेदिष्ठं वै मानवम्ब्रह्मचर्यं वसन्तम्भ्रातरो निर-भजन्सोऽब्रवीदेत्य किम्मह्यमभाक्तेत्येतमेव निष्ठावमववदितारमित्यब्रुवंस्त-स्माद्धाप्येतर्हि पितरम्पुत्रा निष्ठावोऽववदितेत्येवाचक्षते स पितरमेत्याब्रवीत्त्वां ह वाव मह्यन्तताभाक्षुरिति तम्पिताब्रवीन्मा पुत्रक तदादृथा अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमासते ते षष्ठंषष्ठमेवाहरागत्य मुह्यन्ति तानेते सूक्ते षष्ठेऽहनि शंसय तेषां यत्सहस्रं सत्रपरिवेषणं तत्ते स्वर्यन्तो दास्यन्तीति तथेति तानुपैत्प्रति गृभ्णीत मानवं सुमेधस इति तमब्रुवन्किंकामो वदसीतीदमेव वः षष्ठमहः प्रज्ञापयानीत्यब्रवीदथ यद्व एतत्सहस्रं सत्रपरिवेषणं तन्मे स्वर्यन्तो दत्तेहि तथेति तानेते सूक्ते षष्ठेऽहनि अशंसयत्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकं तद्यदेते सूक्ते षष्ठेऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्या-नुख्यात्यै तं स्वर्यन्तोऽब्रुवन्नेतत्ते ब्राह्मण सहस्रमिति तदेनं समाकुर्वाणम्पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीन्मम वा इदम्मम वै वास्तुहमिति सो-ऽब्रवीन्मह्यं वा इदमदुरिति तमब्रवीत्तद्वै नौ तवैव पितरि प्रश्न इति स पितरमैत्तम्पिताब्रवीन्ननु ते पुत्रकादूरित्यदुरेव म इत्यब्रवीत्तत्तु मे पुरुषः-कृष्णशवास्युत्तरत उपोदतिष्ठन्मम वा इदम्मम वै वास्तुहमित्यदितेति तम्पि-ताब्रवीत्तस्यैव पुत्रक तत्तत्तु स तुभ्यं दास्यतीति स पुनरेत्याब्रवीत्तव ह वाव किल भगव इदमिति मे पिताहेति सोऽब्रवीत्तदहं तुभ्यमेव ददामि य एव सत्यमवादीरिति तस्मादेवं विदुषा सत्यमेव वदितव्यं स एष सहस्रसनिर्मन्त्रो यन्नाभानेदिष्ठ उपैनं सहस्रं नमति प्र षष्ठेनाह्ना स्वर्गं लोकं जानाति य एवं वेद

१४