१४

विश्वास-प्रस्तुतिः

नाभानेदिष्ठं शंसति ।

Haug

(The Story of Nābhānediṣṭha, the son of Manu.)

He recites the Nābhānediṣṭham.

मूलम्

नाभानेदिष्ठं शंसति ।

विश्वास-प्रस्तुतिः

नाभानेदिष्ठं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन् ।

Haug

Nābhānediṣṭha was a son of Manu, who was given to the sacred study (after his investiture in the house of his Guru);[17] his brothers deprived him of his share in the paternal property.

Haug - Notes

[17]This is the meaning of the term brahmacharyam vasantam.

मूलम्

नाभानेदिष्ठं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन् ।

विश्वास-प्रस्तुतिः

सो ऽब्रवीदेत्य किं मह्यमभाक्तेति ।

Haug

He went (to them) and said, “What portion is left to me?”

मूलम्

सो ऽब्रवीदेत्य किं मह्यमभाक्तेति ।

विश्वास-प्रस्तुतिः

एतमेव निष्ठावमववदितारमित्यब्रुवन् ।

Haug

They answered, “Go to the adjudicator[18] and arbitrator.”

Haug - Notes

[18]Niṣṭâva.

मूलम्

एतमेव निष्ठावमववदितारमित्यब्रुवन् ।

विश्वास-प्रस्तुतिः

तस्माद्धाप्येतर्हि पितरं पुत्रा निष्ठावो ऽववदितेत्येवा ऽऽचक्षते ।

Haug

By “adjudicator and arbitrator” they meant their father.

मूलम्

तस्माद्धाप्येतर्हि पितरं पुत्रा निष्ठावो ऽववदितेत्येवा ऽऽचक्षते ।

विश्वास-प्रस्तुतिः

स पितरमेत्याब्रवीत्त्वां ह वाव मह्यं तताभाक्षुरिति ।

Haug

He went to his father and said, “They have divided the property including my share among themselves.”

मूलम्

स पितरमेत्याब्रवीत्त्वां ह वाव मह्यं तताभाक्षुरिति ।

विश्वास-प्रस्तुतिः

तं पिता ऽब्रवीन्मा पुत्रक तदादृथा अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमासते ।

Haug

The father answered, “My dear son, do not mind that. There are the Angirasaḥ just engaged in holding their sacrificial session (Sattra) for going to heaven.

मूलम्

तं पिता ऽब्रवीन्मा पुत्रक तदादृथा अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमासते ।

विश्वास-प्रस्तुतिः

ते षष्ठं षष्ठमेवाहरागत्य मुह्यन्ति ।

Haug

As often as they commence the ceremonies of the sixth day, they are puzzled (frustrated in their design).

मूलम्

ते षष्ठं षष्ठमेवाहरागत्य मुह्यन्ति ।

विश्वास-प्रस्तुतिः

तानेते सूक्ते षष्ठे ऽहनि शंसय तेषां यत्सहस्रं सत्रपरिवेषणं तत्ते स्वर्यन्तो दास्यन्तीति ।

Haug

Let them recite on the sixth day those two hymns (abovementioned, Rigveda 10, 61-62), then they will give thee the sum of a thousand which is contributed by all the sacrificers who participate in the sacrificial session,[19] when they go to heaven.”

Haug - Notes

[19]This is the translation of sattra-pariveṣaṇam.

मूलम्

तानेते सूक्ते षष्ठे ऽहनि शंसय तेषां यत्सहस्रं सत्रपरिवेषणं तत्ते स्वर्यन्तो दास्यन्तीति ।

विश्वास-प्रस्तुतिः

तथेति तानुपैत् ।

Haug

He said, “Well, let it be so.” He then went to them,

मूलम्

तथेति तानुपैत् ।

विश्वास-प्रस्तुतिः

प्रतिगृभ्णीत मानवं सुमेधस इति तमब्रुवन् ।

Haug

saying, “Receive me, the son of Manu, among you, O ye wise!”

मूलम्

प्रतिगृभ्णीत मानवं सुमेधस इति तमब्रुवन् ।

विश्वास-प्रस्तुतिः

किंकामो वदसीतीदमेव वः षष्ठमहः प्रज्ञापयानीत्यब्रवीदथ यद्व एतत्सहस्रं सत्रपरिवेषणं तन्मे स्वर्यन्तो दत्तेति ।

Haug

They said, “What dost thou wish, that thou speakest thus ?” He answered, “I will show you how to perform the sixth day, then give me the reward for the sacrificial session of a thousand (cows or other valuables), when you go up to heaven.”

मूलम्

किंकामो वदसीतीदमेव वः षष्ठमहः प्रज्ञापयानीत्यब्रवीदथ यद्व एतत्सहस्रं सत्रपरिवेषणं तन्मे स्वर्यन्तो दत्तेति ।

विश्वास-प्रस्तुतिः

तथेति तानेते सूक्ते षष्ठे ऽहन्यशंसयत् ।

Haug

They said, “Well, let it be so.” He made them recite on the sixth day those two hymns;

मूलम्

तथेति तानेते सूक्ते षष्ठे ऽहन्यशंसयत् ।

विश्वास-प्रस्तुतिः

ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकम् ।

Haug

then they became aware of the Yajña (the sacrifice regarded as a person, leading to heaven), and of the heaven-world.

मूलम्

ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकम् ।

विश्वास-प्रस्तुतिः

तद्यदेते सूक्ते षष्ठे ऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै ।

Haug

Therefore the Hotar recites those two hymns on the sixth day, in order that the sacrificer might become aware of the sacrifice, and to have subsequently pointed out the heaven-world.

मूलम्

तद्यदेते सूक्ते षष्ठे ऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै ।

विश्वास-प्रस्तुतिः

तं स्वर्यन्तो ऽब्रुवन्नेतत्ते ब्राह्मण सहस्रमिति ।

Haug

When they were going up, they said, “This thousand, O Brāhmaṇa, belongs to thee.”

मूलम्

तं स्वर्यन्तो ऽब्रुवन्नेतत्ते ब्राह्मण सहस्रमिति ।

विश्वास-प्रस्तुतिः

तदेनं समाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीन्मम वा इदं मम वै वास्तुहमिति ।

Haug

When he was putting all together (the thousand pieces), a man clothed in a blackish (dirty) dress[20] alighted and approaching him, said, “This is mine ; I have left it here.”

Haug - Notes

[20]Sây, says that according to another Śâkhâ, this man is Rudra, the master of cattle.

मूलम्

तदेनं समाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीन्मम वा इदं मम वै वास्तुहमिति ।

विश्वास-प्रस्तुतिः

सो ऽब्रवीन्मह्यं वा इदमदुरिति ।

Haug

He answered, “The Angirasaḥ have given it to me.”

मूलम्

सो ऽब्रवीन्मह्यं वा इदमदुरिति ।

विश्वास-प्रस्तुतिः

तमब्रवीत्तद्वै नौ तवैव पितरि प्रश्न इति ।

Haug

The man said “Then it belongs to either of us, thy father may decide.”

मूलम्

तमब्रवीत्तद्वै नौ तवैव पितरि प्रश्न इति ।

विश्वास-प्रस्तुतिः

स पितरमैत् ।

Haug

He went to his father.

मूलम्

स पितरमैत् ।

विश्वास-प्रस्तुतिः

तं पिता ऽब्रवीन्ननु ते पुत्रकादू३रिति ।

Haug

He asked him, “Have they not, my dear son, given you (the reward) ?”

मूलम्

तं पिता ऽब्रवीन्ननु ते पुत्रकादू३रिति ।

विश्वास-प्रस्तुतिः

अदुरेव म इत्यब्रवीत्तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपोदतिष्ठन्मम वा इदं मम वै वास्तुहमित्यादितेति ।

Haug

He said, “They have given me; but a man clothed in a blackish dress alighted and approaching me said, ‘This is mine, I have left it here.’ So saying, he took it.”

मूलम्

अदुरेव म इत्यब्रवीत्तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपोदतिष्ठन्मम वा इदं मम वै वास्तुहमित्यादितेति ।

विश्वास-प्रस्तुतिः

तं पिता ऽब्रवीत्तस्यैव पुत्रक तत्तत्तु स तुभ्यं दास्यतीति ।

Haug

The father said, “It is his, my dear son ! but he will give it to thee.”

मूलम्

तं पिता ऽब्रवीत्तस्यैव पुत्रक तत्तत्तु स तुभ्यं दास्यतीति ।

विश्वास-प्रस्तुतिः

स पुनरेत्याब्रवीत्तव ह वाव किल भगव इदमिति मे पिता ऽऽहेति ।

Haug

He went back to him, and said, “Sir, this belongs only to you; so says my father.”

मूलम्

स पुनरेत्याब्रवीत्तव ह वाव किल भगव इदमिति मे पिता ऽऽहेति ।

विश्वास-प्रस्तुतिः

सो ऽब्रवीत्तदहं तुभ्यमेव ददामि य एव सत्यमवादीरिति ।

Haug

He said, “I give it to thee, because you have spoken the truth, (i.e. acknowledged that it is my property).”

मूलम्

सो ऽब्रवीत्तदहं तुभ्यमेव ददामि य एव सत्यमवादीरिति ।

विश्वास-प्रस्तुतिः

तस्मादेवं विदुषा सत्यमेव वदितव्यम् ।

Haug

Therefore a man who is learned must speak only the truth.

मूलम्

तस्मादेवं विदुषा सत्यमेव वदितव्यम् ।

विश्वास-प्रस्तुतिः

स एष सहस्रसनिर्मन्त्रो यन्नाभानेदिष्ठः ।

Haug

This is the mantra of “the thousand gifts,” the Nābhānediṣṭha hymn.

मूलम्

स एष सहस्रसनिर्मन्त्रो यन्नाभानेदिष्ठः ।

विश्वास-प्रस्तुतिः

उपैनं सहस्रं नमति ।

Haug

Upon that man who has this knowledge, a thousand gifts shower,

मूलम्

उपैनं सहस्रं नमति ।

विश्वास-प्रस्तुतिः

प्र षष्ठेनाह्ना स्वर्गं लोकं जानाति य एवं वेद ।

Haug

and he gets a glimpse of heaven by means of the sixth day.

मूलम्

प्र षष्ठेनाह्ना स्वर्गं लोकं जानाति य एवं वेद ।