एन्द्र याह्युप नः परावत इति सूक्तम्पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपम्प्र घा न्वस्य मबतो महानीति सूक्तं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपमभूरेको रयिपते रयीणामिति सूक्तं रथमा तिष्ठ तुविनृम्ण भीममित्यन्तो वै स्थितमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यावत उप नो हरिभिः सुतमिति पर्यासः समानोदर्कः षष्ठेऽहनि षष्ठस्याह्नो रूपं ता उ गायत्र्यो गायात्र्यो वा एतस्य त्र्यहस्य मध्यंदिनम्वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधात्यभि त्यं देवं सवितारमोण्योरिति वैश्वदेवस्य प्रतिपदतिछन्दाः षाष्ठेऽहनि षष्ठस्याह्नो रूपं तत्सवितुर्वरेण्यं दोषो आगादि-त्यनुचरोऽन्तो वै गतमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपमुदु ष्य देवः सविता सवायेति सावित्रं शश्वत्तमं तदपा वह्निरस्थादित्यन्तो वै स्थितमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं कतरा पूर्वा कतरापरायोरिति द्यावापृथिवीयं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपं किमु श्रेष्ठः किं यविष्ठो न आजगन्नुप नो वाजा अध्वरमृभुक्षा इत्यार्भवं नाराशंसं त्रिवत्षष्ठेऽहनि षष्ठस्याह्नो रूपमिदमित्था रौद्रं गूर्तवचा ये यज्ञेन दक्षिणया समक्ता इति वैश्वदेवम् १३