विश्वास-प्रस्तुतिः
एन्द्र याह्युप नः परावत इति सूक्तं पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
(The Remainder of the Niṣkevalya Śastra and the Śastras of the Evening Libation.)
Endra yāhy upa naḥ (1, 130) is the Paruchhepa hymn, in the Atichhandāḥ metre, comprising seven padas which is a characteristic of the sixth day.
मूलम्
एन्द्र याह्युप नः परावत इति सूक्तं पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
प्र घा न्वस्य महतो महानीति सूक्तं समानोदर्कं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Pra gha nvasya (2, 15) is the hymn whose several verses have the same refrain.[15] which is a characteristic of the sixth day.
Haug - Notes
[15]This is mada indra chakâra.
मूलम्
प्र घा न्वस्य महतो महानीति सूक्तं समानोदर्कं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
अभूरेको रयिपते रयीणामिति सूक्तं रथमा तिष्ठ तुविनृम्ण भीममित्यन्तो वै स्थितमन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
In the hymn abhûr eko rayipate (6, 31), the words occur (verse 5) ratham âtiṣṭha tuvinṛimna bhîmam; in it the word sthâ “to stand,” marks an end (standing being the end of going) which is a characteristic of the sixth day.
मूलम्
अभूरेको रयिपते रयीणामिति सूक्तं रथमा तिष्ठ तुविनृम्ण भीममित्यन्तो वै स्थितमन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
Haug
By means of this hymn, which is in the Triṣṭubh metre, the Hotar keeps, through its padas which remain firm, the libation in its proper place, preventing it from falling.
मूलम्
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
विश्वास-प्रस्तुतिः
उप नो हरिभिः सुतमिति पर्यासः समानोदर्कः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Upa no haribhiḥ stutam (8, 82, 31-33) is the setting which has the same refrain which is a characteristic of the sixth day.
मूलम्
उप नो हरिभिः सुतमिति पर्यासः समानोदर्कः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
ता उ गायत्र्यो गायात्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति ।
Haug
It is in the Gāyatrī metre, which is the leading one of the midday libation of the three (latter) days. Therefore the Nivid is to be placed in it.
मूलम्
ता उ गायत्र्यो गायात्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति ।
विश्वास-प्रस्तुतिः
अभि त्यं देवं सवितारमोण्योरिति वैश्वदेवस्य प्रतिपदतिच्छन्दाः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Abhi tyaṁ devaṁ Savitāram (Vaj. Saṁh. 4, 25) is the beginning of the Vaiśvadeva Śastra, in the Atichhanda metre which is a characteristic of the sixth day.
मूलम्
अभि त्यं देवं सवितारमोण्योरिति वैश्वदेवस्य प्रतिपदतिच्छन्दाः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तत्सवितुर्वरेण्यं दोषो आगादित्यनुचरो ऽन्तो वै गतमन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Tat Savitur vareṇyam (3, 62, 10-11) and doṣô agāt from the sequel, because gata, i.e., gone, signifies an end which is a characteristic of the sixth day.
मूलम्
तत्सवितुर्वरेण्यं दोषो आगादित्यनुचरो ऽन्तो वै गतमन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
उदुष्य देवः सविता सवायेति सावित्रं शश्वत्तमं तदुपा वह्निरस्थादित्यन्तो वै स्थितमन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Ud u ṣya devaḥ savitā savāya (2, 38) is the (Nivid) hymn for Savitar; the words therein, śaśvattamam tadapa vahnir asthāt, contain an anta, for sthita, i.e., standing is an anta which is a characteristic of the sixth day.
मूलम्
उदुष्य देवः सविता सवायेति सावित्रं शश्वत्तमं तदुपा वह्निरस्थादित्यन्तो वै स्थितमन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
कतरा पूर्वा कतरा ऽपरा ऽयोरिति द्यावापृथिवीयं समानोदर्कं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Katarā pûrvā (1, 185, 1) is the (Nivid) hymn for Dyāvāpṛithivī, whose verses have the same refrain[16] which is a characteristic of the sixth day.
Haug - Notes
[16]This is dyâvâ rakṣatam pṛithivi no abhvât.
मूलम्
कतरा पूर्वा कतरा ऽपरा ऽयोरिति द्यावापृथिवीयं समानोदर्कं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
किमु श्रेष्ठः किं यविष्ठो न आजगन्नुप नो वाजा अध्वरमृभुक्षा इत्यार्भवं नाराशंसं त्रिवत्षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Kim u śreṣṭhaḥ kim yaviṣṭhô (1, 161) and upa no vājā adhvaram ṛibhukṣa (4, 37) form the Arbhavam Narāśaṁsam hymns, in which the term “three” occurs, being a characteristic of the third day which is a characteristic of the sixth day.
मूलम्
किमु श्रेष्ठः किं यविष्ठो न आजगन्नुप नो वाजा अध्वरमृभुक्षा इत्यार्भवं नाराशंसं त्रिवत्षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
इदमित्था रौद्रं गूर्तवचा ये यज्ञेन दक्षिणया समक्ता इति वैश्वदेवम् ।
Haug
The two hymns Idam itthā râudram (10, 61), and ye yajñena dakṣinayā samaktā (10, 62) form the Vaiśvadeva (Nābhānediṣṭha) hymns.
मूलम्
इदमित्था रौद्रं गूर्तवचा ये यज्ञेन दक्षिणया समक्ता इति वैश्वदेवम् ।