१२

द्यौर्वै देवता षष्ठमहर्वहति त्रयस्त्रिंशः स्तोमो रैवतं सामातिछन्दाश्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै समानोदर्कं तत्षष्ठस्याह्नो रूपं यद्ध्येव तृतीयमहस्तदेतत्पुनर्यत्षष्ठं यद-श्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्र तवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं य-दुत्तमे पदे देवता निरुच्यते यदसौ लोकोऽभ्युदितो यत्पारुच्छेपं यत्सप्तपदं यन्नाराशंसं यन्नाभानेदिष्ठं यद्रै वतं यदतिछन्दा यत्कृतं यत्तृतीयस्याह्नो रूपं एतानि वै षष्ठस्याह्नो रूपाण्ययं जायत मनुषो धरीमणीति षष्ठस्याह्न आयम्भवति पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपं स्तीर्ण-म्बर्हिरुप नो याही वितय आ वां रथो नियुत्वान्वक्षदवसे सुषुमा यातमद्रि भिर्युवां स्तोमेभिर्देवयन्तो अश्विनावर्मह इन्द्र वृषन्निन्द्रा स्तु श्रौषळो षू णो अग्ने शृणुहि त्वमीळितो ये देवासो दिव्येकादश स्थेयमददाद्र भस-मृणच्युतमिति प्रउगम्पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपं स पूर्व्यो महानामिति मरुत्वतीयस्य प्रतिपदन्तो वै महदन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं त्रय इन्द्र स्य सोमा इन्द्र नेदीय एदिहि प्र नूनम्ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानः षष्ठेऽहनि षष्ठस्याह्नो रूपं यं त्वं रथमिन्द्र मेधसातय इति सूक्त-म्पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपं स यो वृषा वृष्ण्येभिः समोका इति सूक्तं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपमिन्द्र मरुत्व इह पाहि सोममिति सूक्तं तेभिः साकम्पिबतु वृत्रखाद इत्यन्तो वै खादोऽन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधा-रायतनादेवैतेन न प्रच्यवतेऽयं ह येन वा इदमिति पर्यासः स्वर्मरुत्वता जितमित्यन्तो वै जितमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मि-न्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति रेवतीर्नः सधमादे रेवाँ इद्रे वत स्तोतेति रैवतम्पृष्ठम्भवति बार्हतेऽहनि षष्ठेऽहनि षष्ठस्याह्नो रूपं यद्वावानेति धाय्याच्युता त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेनेन्द्र मिद्देवतातय इति सामप्रगाथो निनृत्तवान्षष्ठेऽहनि षष्ठस्याह्नो

रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः १२