विश्वास-प्रस्तुतिः
द्यौर्वै देवता षष्ठमहर्वहति त्रयस्त्रिंशः स्तोमो रैवतं सामातिच्छन्दाश्छन्दः ।
Haug
(The Characteristics of the Sixth Day. The Śastras of the Morning and Midday Libations.)
Heaven (Dyāus) is the leading deity of the sixth day. The Stoma is the thirty-three-fold, the Sāman is Raivatam, Atichhandās the metre.
मूलम्
द्यौर्वै देवता षष्ठमहर्वहति त्रयस्त्रिंशः स्तोमो रैवतं सामातिच्छन्दाश्छन्दः ।
विश्वास-प्रस्तुतिः
यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद ।
Haug
He who knows this thus prospers with the right deity, the right stoma, the right saman, and the right metre.
मूलम्
यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद ।
विश्वास-प्रस्तुतिः
यद्वै समानोदर्कं तत्षष्ठस्याह्नो रूपम् ।
Haug
What has the same end (refrain) is a characteristic of the sixth day.
मूलम्
यद्वै समानोदर्कं तत्षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
यद्ध्येव तृतीयमहस्तदेतत्पुनर्यत्षष्ठं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोको ऽभ्युदितः यत्पारुच्छेपं यत्सप्तपदं यन्नाराशंसं यन्नाभानेदिष्ठं यद्रैवतं यदतिच्छन्दा यत्कृतं यत्तृतीयस्याह्नो रूपम् ।
Haug
The sixth day has the same characteristics as the third, viz. the words, aśva, anta, end; repetition, consonance, cohabitation, paryasta (set), three, what has the form of anta; the mentioning of the deity in the last pada, an allusion to that world (heaven). The peculiar characteristics of the sixth day are, the Paruchhepa hymns comprising seven padas, the Nārāśaṁsam, the Nābhānediṣṭham, the Raivatam the Atichhandāḥ, and the past tense.
मूलम्
यद्ध्येव तृतीयमहस्तदेतत्पुनर्यत्षष्ठं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोको ऽभ्युदितः यत्पारुच्छेपं यत्सप्तपदं यन्नाराशंसं यन्नाभानेदिष्ठं यद्रैवतं यदतिच्छन्दा यत्कृतं यत्तृतीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
एतानि वै षष्ठस्याह्नो रूपाणि ।
Haug
These are the characteristics of the sixth day.
मूलम्
एतानि वै षष्ठस्याह्नो रूपाणि ।
विश्वास-प्रस्तुतिः
अयं जायत मनुषो धरीमणीति षष्ठस्याह्न आज्यं भवति पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Ayam jāyata manuṣo dharīmaṇi (1, 128) is the Ajya Śastra, which is a Paruchhepa hymn, an Atichhandāḥ (a metre exceeding the normal measure) comprising seven padas, which is a characteristic of the sixth day.
मूलम्
अयं जायत मनुषो धरीमणीति षष्ठस्याह्न आज्यं भवति पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
स्तीर्णं बर्हिरुप नो याहि वीतय आ वां रथो नियुत्वान्वक्षदवसे सुषुमायातमद्रिभिर्युवां स्तोमेभिर्देवयन्तो अश्विना ऽवर्मह इन्द्र वृषन्निन्द्रास्तु श्रौषळोषूणो अग्ने शृणुहि त्वमीळितो ये देवासो दिव्येकादशस्थेयमददाद्रभसमृणच्युतमिति प्रउगं पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
The Pra-uga Śāstra consists of the following verses, which all are Paruchhepa, and Atichhandāḥ, comprising seven padas: stīrṇam barhir up no yāhi vītaye (1, 135, 1-3), ā vām ratho niyutvān (1, 135, 4-6); suṣumā yatam adribhir (1, 137, 1-3); yuvāṁ stomebhir devayanto (1, 139, 4-6); avar maha (1, 133, 6-7); astu śrauṣaḷ (1, 139, 1); o ṣu no agne śṛiṇuhi tvām īḷitô (1, 139, 7); ye devāso divy ekādaśa (1, 139, 11); iyam adadād rabhasam (6, 61, 1-3).
मूलम्
स्तीर्णं बर्हिरुप नो याहि वीतय आ वां रथो नियुत्वान्वक्षदवसे सुषुमायातमद्रिभिर्युवां स्तोमेभिर्देवयन्तो अश्विना ऽवर्मह इन्द्र वृषन्निन्द्रास्तु श्रौषळोषूणो अग्ने शृणुहि त्वमीळितो ये देवासो दिव्येकादशस्थेयमददाद्रभसमृणच्युतमिति प्रउगं पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
स पूर्व्यो महानामिति मरुत्वतीयस्य प्रतिपदन्तो वै महदन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Sa pūrvyô mahānām (8, 52, 1-3) is the beginning of the Marutvatîya Śastra, because mohan is a word in anta (acc. mahāntam), and anta, i. e., end, is a characteristic of the sixth day, being the end (the last of the second series of three days).
मूलम्
स पूर्व्यो महानामिति मरुत्वतीयस्य प्रतिपदन्तो वै महदन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
त्रय इन्द्रस्य सोमा इन्द्र नेदीय एदिहि प्र नूनं ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
The verses, Traya indrasya Soma (8, 2, 7-9); Indra nedīya edihi (Vāl. 5, 5-6); pra nûnam Brahmaṇaspatir (1, 40, 5-6); Agnir netā (3, 20, 4); tvam Soma kratubhiḥ (1, 91, 2), pinvanty apô (1, 64, 6); and nakiḥ sudāsô ratham are the extension (ātānaḥ of the Marutvatîya Śāstra) and identical with those of the third day.
मूलम्
त्रय इन्द्रस्य सोमा इन्द्र नेदीय एदिहि प्र नूनं ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
यं त्वं रथमिन्द्र मेधसातय इति सूक्तं पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Yam tvam ratham indra medhasātaye (1, 129) is a Paruchhepa hymn in the Atichhandāḥ metre, consisting of seven padas.
मूलम्
यं त्वं रथमिन्द्र मेधसातय इति सूक्तं पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
स यो वृषा वृष्ण्येभिः समोका इति सूक्तं समानोदर्कं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Sa yo vṛiṣā vṛiṣṇyebhiḥ (1, 100) is the hymn whose verses have the same refrain[11] (samānodarka).
Haug - Notes
[11]This is Marutvân no bhavatv indra ûti.
मूलम्
स यो वृषा वृष्ण्येभिः समोका इति सूक्तं समानोदर्कं षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
इन्द्र मरुत्व इह पाहि सोममिति सूक्तं तेभिः साकं पिबतु वृत्रखाद इत्यन्तो वै खादो ऽन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Indra Marutvā iha pāhi (3, 51, 7) is the hymn,[12] which contains an anta, (a participle of present tense form in ant, or its equivalent) in the words (verse 9), tebhiḥ sākam pibatu vṛitrakhādaḥ; because vṛitrakhādô (ādô being taken as equivalent to anta) is the anta, and the sixth day is the end (anta).
Haug - Notes
[12]In the present state of the Saṁhitâ it is incorporated with another one.
मूलम्
इन्द्र मरुत्व इह पाहि सोममिति सूक्तं तेभिः साकं पिबतु वृत्रखाद इत्यन्तो वै खादो ऽन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
Haug
By means of this hymn, which is in the Triṣṭubh metre, the Hotar keeps through its padas which remain firm, the libation in its proper place, preventing it from falling.
मूलम्
तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
विश्वास-प्रस्तुतिः
अयं ह येन वा इदमिति पर्यासः स्वर्मरुत्वता जितमित्यन्तो वै जितमन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Ayaṁ ha yena (10, 65, 4-6) is the triplet which serves as a setting, for in its words, svar marutvatā jitam, there is an anta, jita is an anta.[13]
Haug - Notes
[13]This appears to be an error, the form ant is to be sought in marutvatâ.
मूलम्
अयं ह येन वा इदमिति पर्यासः स्वर्मरुत्वता जितमित्यन्तो वै जितमन्तः षष्ठमहः षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।
Haug
These verses are in the Gāyatrī metre; the Gāyatrīs are the leading metres at the midday libation during these three days.
मूलम्
ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।
विश्वास-प्रस्तुतिः
तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति ।
Haug
The Nivid is put in the leading metre; thence the Hotar puts the Nivid in the Gāyatrī metre.
मूलम्
तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति ।
विश्वास-प्रस्तुतिः
रेवतीर्नः सधमादे रेवाँ इद्रेवतः स्तोतेति रैवतं पृष्ठं भवति बार्हते ऽहनि षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
The verses, revatīr na sadhamāde (1, 30, 13-15), and revān id (8, 2, 13-15), form the Raivata Pṛiṣṭha (the Raivata Sāma), which is used on a Bṛihat day, to which the sixth day belongs.
मूलम्
रेवतीर्नः सधमादे रेवाँ इद्रेवतः स्तोतेति रैवतं पृष्ठं भवति बार्हते ऽहनि षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
यद्वावानेति धाय्या ऽच्युता ।
Haug
The verse yad vāvāna is the invariable Dhāyyā.
मूलम्
यद्वावानेति धाय्या ऽच्युता ।
विश्वास-प्रस्तुतिः
त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेन ।
Haug
By “tvāṁ iddhi havāmahe” (6, 46, 1-2) which follows the Dhāyyā, the Hotar returns all to the womb of the Bṛihat Sāma; for this is a Bṛihat day according to its position.
मूलम्
त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेन ।
विश्वास-प्रस्तुतिः
इन्द्रमिद्देवतातय इति सामप्रगाथो निनृत्तवान्षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
Haug
Indram id devatātaye (8, 3, 5-6) is the Sāma Pragātha which has the characteristic of ninvṛita (has a consonance).[14]
Haug - Notes
[14]Because in every pada there is the word Indra, the repetition of which resembles the sounding of a bell metal instrument.- Sây.
मूलम्
इन्द्रमिद्देवतातय इति सामप्रगाथो निनृत्तवान्षष्ठे ऽहनि षष्ठस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो ऽच्युतः ।
Haug
Tyam û ṣu vājinam is the invariable Tārkṣya.
मूलम्
त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो ऽच्युतः ।