११

देवासुरा वा एषु लोकेषु समयतन्त ते वै देवाः षष्ठेनैवाह्नैभ्यो लोके-भ्योऽसुरान्प्राणुदन्त तेषां यान्यन्तर्हस्तीनानि वसून्यासंस्तान्यादाय समुद्र -म्प्रौप्यन्त त एतेनैव छन्दसानुहायान्तर्हस्तीनानि वसून्याददत तद्यदेतत्पद-म्पुनःपदं स एवाङ्कुश आसञ्जनायाद्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो

लोकेभ्यो नुदते य एवं वेद ११