पारुच्छेपीरुपदधति पूर्वयोः सवनयोः पुरस्तात्प्रस्थितयाज्यानां रोहितं वै नामैतच्छन्दो यत्पारुच्छेपमेतेन वा इन्द्रः सप्त स्वर्गाँ ल्लोकानरोहद्रो हति सप्त स्वर्गाँ ल्लोकन्य एवं वेद तदाहुर्यत्पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात्सप्तपदाः षष्ठेऽहञ्छस्यन्त इति षड्भिरेव पदैः षष्ठमह-राप्नुवन्त्यपछिद्येवैतदहर्यत्सप्तमं तदेव सप्तमेन पदेनाभ्यारभ्य वसन्ति वाचमेव
तत्पुनरुपयन्ति संतत्यै संततैस्त्र्यहैरव्यवछिन्नैर्यन्ति य एवं विद्वांसो यन्ति १०