०९

देवक्षेत्रं वा एतद्यत्षष्ठमहर्देवक्षेत्रं वा एत आगछन्ति ये षष्ठमहरागछन्ति न वै देवा अन्योन्यस्य गृहे वसन्ति नर्तुरृतोर्गृहे वसतीत्याहुस्तद्यथायथमृत्विज ऋतुयाजान्यजन्त्यसम्प्रदायं तद्यथर्त्वृतून्कल्पयन्ति यथायथं जनतास्तदाहु-र्नर्तुप्रैषैः प्रेषितव्यं नर्तुप्रैषैर्वषट्कृत्यं वाग्वा ऋतुप्रैषा आप्यते वै वाक्षष्ठेऽहनीति यदृतुप्रैषैः प्रेष्येयुर्यदृतुप्रैषैर्वषट्कुर्युर्वाचमेव तदाप्तां श्रान्ताम्मृक्णवहीं वहरावि-णीमृछेयुर्यद्वेभिर्न प्रेष्येयुर्यद्वेभिर्न वषट्कुर्युरच्युताद्यज्ञस्य च्यवेरन्यज्ञात्प्रा-णात्प्रजापतेः पशुभ्यो जिह्मा ईयुस्तस्मादृग्मेभ्य एवाधि प्रेषितव्यमृग्मेभ्योऽधि वषट्कृत्यं तन्न वाचमाप्तां श्रान्ताम्मृक्णवहीं वहराविणीमृछन्ति नाच्युताद्यज्ञस्य

च्यवन्ते न यज्ञात्प्राणात्प्रजापतेः पशुभ्यो जिह्मा यन्ति ९