विश्वास-प्रस्तुतिः
प्रेदं ब्रह्म वृत्रतूर्येष्वाविथेति सूक्तं पाङ्क्तं पञ्चपदं पञ्चमे ऽहनि पञ्चनास्याह्नो रूपम् ।
Haug
(The Remainder of the Niṣkevalya Śastra. The Śastras of the Evening Libation.)
The hymn, predam brahma (8, 37) is in the Paṅkti metre, comprising five padas.
मूलम्
प्रेदं ब्रह्म वृत्रतूर्येष्वाविथेति सूक्तं पाङ्क्तं पञ्चपदं पञ्चमे ऽहनि पञ्चनास्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
इन्द्रो मदाय वावृध इति सूक्तं मद्वत्पाङ्क्तं पञ्चपदं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
Haug
The hymn, *Indro madāya vāvṛidha* (1, 81) is in the Paṅkti metre, consisting of five padas, and containing the term “*mad*.”मूलम्
इन्द्रो मदाय वावृध इति सूक्तं मद्वत्पाङ्क्तं पञ्चपदं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
सत्रा मदासस्तव विश्वजन्या इति सूक्तं मद्वत्त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
Haug
By means of the hymn Satrâ madâsas tava (6, 36, 1) which contains the term “mad” also, and is in the Triṣṭubh metre, the Hotar keeps through its padas which remain firm, the libation in its proper place, thus preventing it from falling down.
मूलम्
सत्रा मदासस्तव विश्वजन्या इति सूक्तं मद्वत्त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।
विश्वास-प्रस्तुतिः
तमिन्द्रं वाजयामसीति पर्यासः ।
Haug
The triplet, tam Indram vâjayâmasi (8, 82, 7-9) is the setting (paryāsa).
मूलम्
तमिन्द्रं वाजयामसीति पर्यासः ।
विश्वास-प्रस्तुतिः
स वृषा वृषभो भुवदिति पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
Haug
(Its third pada) sa vṛiṣâ vṛiṣabho bhuvat, contains the animal from (there is the word vṛiṣan, i. e., male, in it).
मूलम्
स वृषा वृषभो भुवदिति पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।
Haug
It is in the Gāyartī metre, for the Gāyatrīs are the leading metres at the midday libation in this Tryaha (the three days from the fourth to the sixth).
मूलम्
ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति ।
विश्वास-प्रस्तुतिः
तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति ।
Haug
The Nivid is placed in that metre which is the leading. Therefore the Hotar places the Nivid in (these) Gāyatrīs.
मूलम्
तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति ।
विश्वास-प्रस्तुतिः
तत्सवितुर्वृणीमहे ऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरे ऽहनि पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
Haug
The verses, tat savitur vṛiṇîmahe (5, 82, 1-3) adyâ no deva savitar (5, 82, 13-15), are the beginning and sequel of the Vaiśvadeva Śāstra on the Rathantara day, of which the fifth is one.
मूलम्
तत्सवितुर्वृणीमहे ऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरे ऽहनि पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
उदुष्य देवः सविता दमूना इति सावित्रमा दाशुषे सुवति भूरि वाममिति वामं पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
Haug
Ud u ṣya devaḥ savitā damūnâ (6, 71, 4-6) is the (Nivid) hymn for Savitar. In it there is the word vāmam (in the last pada), i.e., left, which is a characteristic of the animal form.
मूलम्
उदुष्य देवः सविता दमूना इति सावित्रमा दाशुषे सुवति भूरि वाममिति वामं पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
मही द्यावापृथिवी इह ज्येष्ठे इति द्यावापृथिवीयं रुवद्धोक्षेति पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
Haug
In the Dyāvāpṛithivī hymn, mahî dyāvāpṛithivī (4, 56) the words ruvad dhokṣā (in the last pada) contain the animal form (because the word dhokṣā, from the root duh, to milk, is in it).
मूलम्
मही द्यावापृथिवी इह ज्येष्ठे इति द्यावापृथिवीयं रुवद्धोक्षेति पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेत्यार्भवं वाजो वै पशवः पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
Haug
Ribhur vibhvā vāja (4, 34) is the Ribhu hymn. Because the animals are vājaḥ, i. e., property, booty, which (vājaḥ) is an animal form.
मूलम्
ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेत्यार्भवं वाजो वै पशवः पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
स्तुषे जनं सुव्रतं नव्यसीभिरिति वैश्वदेवमध्यासवत्पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
Haug
Stuṣe janaṁ suvrataṁ navyasībhir (6, 49, 1) is a hymn (in the Triṣṭubh metre) with an additional pada (in the last verse, which is in the Śakvarī, instead of in the Triṣṭubh metre). This is the animal form (animals being supposed to have five feet instead of four, the mouth being counted as the fifth) which is a characteristic of the fifth day.
मूलम्
स्तुषे जनं सुव्रतं नव्यसीभिरिति वैश्वदेवमध्यासवत्पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
हविष्पान्तमजरं स्वर्विदीत्याग्निमारुतस्य प्रतिपद्धविष्मत्पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
Haug
Haviṣ pântam ajaram (10, 88, 1) is the beginning of the Agnimāruta Śāstra. It contains the word haviṣ, i. e., offering, which is a characteristic of the fifth day.
मूलम्
हविष्पान्तमजरं स्वर्विदीत्याग्निमारुतस्य प्रतिपद्धविष्मत्पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
वपुर्नु तच्चिकितुषे चिदस्त्विति मारुतं वपुष्मत्पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
Haug
Vapur na tachchitikuṣe (6, 66) is the (Nivid) hymn for the Marutas, which contains the word vapus, i. e., from.
मूलम्
वपुर्नु तच्चिकितुषे चिदस्त्विति मारुतं वपुष्मत्पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।
Haug
Jātavedase sunavāma is the invariable Dhāyyā.
मूलम्
जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।
विश्वास-प्रस्तुतिः
अग्निर्होता गृहपतिः स राजेति जातवेदस्यमध्यासवत्पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।
Haug
Agnir hotā gṛihapatiḥ (6, 15, 13) is the (Nivid) hymn for Jātavedās, with an additional pada (at the end); this is the animal form, which is a characteristic of the fifth day.
मूलम्
अग्निर्होता गृहपतिः स राजेति जातवेदस्यमध्यासवत्पशुरूपं पञ्चमे ऽहनि पञ्चमस्याह्नो रूपम् ।