प्रेदम्ब्रह्म वृत्रतूर्येष्वाविथेति सूक्तम्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चनास्याह्नो रूपमिन्द्रो मदाय वावृध इति सूक्तम्मद्वत्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं सत्रा मदासस्तव विश्वजन्या इति सूक्तम्मद्वत्त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते तमिन्द्रं वाजयामसीति पर्यासः स वृषा वृषभो भुवदिति पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि पञ्चमेऽहनि पञ्चमस्याह्नो रूपमुदु ष्य देवः सविता दमूना इति सावित्रमा दाशुषे सुवति भूरि वाममिति वाम-म्पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्मही द्यावापृथिवी इह ज्येष्ठे इति द्यावापृथिवीयं रुवद्धोक्षेति पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमृभुर्विभ्वा वाज इन्द्रो नो अछेत्यार्भवं वाजो वै पशवः पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्स्तुषे जनं सुव्रतं नव्यसीभिरिति वैश्वदेवमध्यासवत्पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं हूविसः पान्तमजरं स्वर्विदीत्याग्निमारुतस्य प्रतिपद्धवि-ष्मत्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं वपुर्नु तच्चिकितुषे चिदस्त्विति मारुतं वपुष्म-त्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवे-दस्याच्युताग्निर्होता गृहपतिः स राजेति जातवेदस्यमध्यासवत्पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम् ८