महानाम्नीष्वत्र स्तुवते शाक्वरेण साम्ना राथंतरेऽहनि पञ्चमेऽहनि पञ्चमस्याह्नो रूपमिन्द्रो वा एताभिर्महानात्मानं निरमिमीत तस्मान्महानाम्न्योऽथो इमे वै लोका महानाम्न्य इमे महान्त इमान्वै लोकान्प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद्यदिदङ्किंच यदिमाँ ल्लोकान्प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद्यदिदं किंच तच्छक्वर्योऽभवंस्तच्छक्वरीणां शक्वरीत्वं ता ऊर्ध्वाः सीम्नोऽभ्यसृजत यदूर्ध्वाः सीम्नोऽभ्यसृजत तत्सिमा अभवंस्तत्सिमानां सिमात्वं स्वादोरित्था विषूवत उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधन्नित्यनुरूपो वृषण्वा-न्पृश्निमान्मद्वान्वृधन्वान्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं यद्वावानेति धाय्या-च्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेन मो षु त्वा वाघतश्चनेति सामप्रगाथोऽध्यासवान्पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः ७